पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षुद्ररोगनिदानम् ५५ ॥ १८१ राङ्गयो रजो दुष्टं सवन्ति च। अध्यायामरता यस्मातस्मान्न खलितिः त्रियाः ॥ इति । स्त्रीष्वपि खालित्यदर्शनात् प्रायिकमेतत् कथनमिति तत्व. विदः॥ २८-२९ ॥ दारुणक-दारुणा कण्डुरा रुक्षा केशभूमिः प्रपाट्यते । कफमारुतकोपेन विद्याहारुणकं तु तम् ॥ ३० ॥ अरुंपिका-अरूपि बहुवक्त्राणि बहक्लेदीनि मूर्धिन तु । कफासकिमिकोपेन नृणां विद्यादरषिकाम् ॥ ३१ ॥ पलितं-क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः । पित्तं च केशान् पचति पलितं तेन जायते ॥ ३२ ॥ पलितमाह-क्रोधेत्यादि । क्रोधादिकृतः शिरोगतः शरीरोष्मा केशान् पित्तं च पचति तेन पलितं-केशानां शौक्ल्यं जायते । पतञ्च द्विविध-काल- जमकालजम्नेति । तत्र क्रोधादिकृतो वयःपरिणामादिजनितो वा चोष्मा दोष- त्रययुक्तः कालजपलितहेतुः॥३२॥ युवानपिडका-शाल्मलीकण्टकप्रख्याः कफमारुतरकजाः । युवानपिडका यूनां विज्ञेया मुखदूषिकाः ॥ ३३ ॥ पमिनी. कण्टकैराचितं वृत्तं मण्डलं पाण्डुकण्डरम् । कण्टकम्-पभिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ॥ ३४॥ जतुमणिः-सममुत्सबमरुज मण्डलं कफरक्तजम् । सहज लक्ष्म जैकेषां लक्ष्या जतुमणिस्तु सः॥३९॥ मषकम् -अवेदन स्थिरं चैव यस्मिन् गात्रे प्रदृश्यते । माषवत्कृष्णमुत्सन्नमनिलान्मपकं तु तत् ॥ ३६ ॥ तिलकालका:-कृष्णानि तिलमात्राणि नीरुजानि समानि च । वातपित्तकफोच्छोषातान्विधात्तिलकालकान् ॥३७॥ न्यच्छं-महद्वा यदि वा चाल्पं श्यावं वा यदि वाऽसितम् । नीरज मण्डलं गात्रे न्यच्छमित्यभिधीयते ॥३८॥ म्याग-क्रोधायोसप्रकुपितो वायुः पित्तेन संयुतः। मुखमागत्य सहसा मण्डलं विसृजत्यतः। नीरज तनुकं यावं मुखे व्यङ्गं समादिशेत् ॥ ३९॥