पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ . पञ्चलक्षणनिदानम् । विकल्पं लिलक्षयिपुराह-दोषागामिति । दोषाणां बातादीनां, समवे- तानाम् एकत्र रोगे मिलितानाम् । सङ्घटितानामिति यावत् । अंशांशकल्पना%3 अंशश्च अंशश्च अंशांशी ताभ्यां कल्पना-वातादिगतरौक्ष्यशैत्यादिविशेषावबो- धपूर्वकं तत्तदोषप्रकोपावधारणं विकल्पपदार्थः। दोषाणामिति बहुवचननिर्देशे- नैव समवेतानामित्यर्थे लब्ध पुनः समवेतानामिति पृथगद्वन्द्वसन्नि पातानार्माप- चांशांशकल्पना विकल्प इति स्फुटप्रतिपत्तये ॥ १२ ॥ प्राधान्यमाह-स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधः प्राधान्यमादिशेत् ॥१३॥ प्राधान्य निरूपयितुमाह-स्वातन्त्र्येति । स्वतन्त्रस्य भावः स्वातन्त्र्यं, पर- तन्त्रस्य भावः पारतन्त्र्य, स्वातन्त्र्यम् पारतन्त्र्यञ्च स्वातन्त्र्यपारतन्त्र्ये ताभ्यां, व्याधेः रोगस्य, प्राधान्यम् , आदिशेद-जानीयात् । अयम्भावः-रोगारम्भे हि खलु एकैको दोषो यदि व्याधिमारभते तर्हि प्राधान्यं तत्र न सम्भवति तस्य सापेक्षकत्वात् । यच्चामयं द्वौ वा त्रयो वा दोपा पारभन्ते तत्र प्राधान्यमेकमपे- क्ष्यान्यस्य सम्भवति, द्वयोमध्ये यस्तर उत्कृष्टोऽधिकलिङ्गस्तस्य प्राधान्य लिङ्गता- रतभ्याभ्यां दोषयोर्दोषाणां वा प्राधान्यं निर्णेयम्। यदुक्तं चरक-प्राधान्य पुन- दोषाणां तारतम्याभ्यामुपलभ्यते।तत्र द्वयोस्तर्रास्त्रपुनम इति ॥ १३ ॥ बलाबलमाह-हेत्वादिकात्स्या॑वयवैर्बलाबलविशेषणम् ॥ १४ ॥ बलाबलमाह-हेत्वादीति । हेतुरादिर्यषां तें हत्वादयः, श्रादिशब्देन पूर्व- रूपादीनामपि संग्रहः, कृत्स्नस्य भावः कात्न्यं कात्स्न्यन अवयवाः काराव- यवा हेत्वादीनां कात्यावयवा हेत्वादिकात्स्यावयवास्तैः तथोक्तैः। बलञ्चा- वलञ्च बलाबले व्याधेः सम्बन्धिनी, तयोविशेषणं विशष्टता, बलाबलविशे- षणं । तद्यथासंख्येन हेत्वादिकात्स्यावयवैः, आदिशेत् जानीयाद। इति ॥१४॥ कालमाह-नक्तंदिनर्तुभुक्तांशैाधिकालो यथामलम् ॥ १५ ॥ कालमाह-नक्तमित्यादि । नक्तं च दिनञ्च ऋतुश्च भुक्तञ्च तानि नक्तदिन- तुभुक्तानि तेषामंशाः= अवयवा नक्तदिन भुक्तांशास्तैस्तथोक्तः । नक्तं रात्रिः, दिनम् अहः, ऋतुः वसन्तादिः, भुक्तम् आहारः, व्याधेः रोगस्य, काल:= समयः, व्याधिकालः । यथामलं यथादोषं, यो यस्य दोषस्यात्मीयकालस्तं नक्तदिन भुक्तांशैाधिकाल रोगबृद्धिहानिहेतुसमयमुक्त जानीयात् । तदुक्त वाग्भटेन "ते व्यापिनोऽपि हन्नाभ्योरधोमध्यो संश्रयाः। वयोऽहो. रात्रिभुक्तानां तेऽन्त्यमध्यादिगाः क्रमात्" इति । अत्र ते इत्यनेन वात- पित्तश्लेष्माणः क्रमतो वेदितव्याः ।। १५॥