पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सुधोपेते माधवनिदाने- इति प्रोक्तो निदानार्थः स व्यासे नोपदेक्ष्यते ॥१६॥ उक्तनिदानपञ्चकमुपसंहरन्नाह-इतीति । इति-इति-शब्दः प्रकारे, अनेन प्रकारंण संक्षेपनामकन यथानिर्दिष्टम् , निदानार्थः निदानाभिधेयः, संक्षेपतः, प्रोक्तः प्रकर्षणोक्तः, न तु व्यामतः । य एव निदानार्थः पूर्व समासतः प्रोक्तः स एव सम्प्रति व्यासेन विस्तरतः प्रतिरोग समग्रेण ग्रन्थेन, उपदेक्ष्य- ते-कथयिष्यते, तन्त्रद्भिरिति शेपः ॥ १६ ॥ इदानीं सर्वव्याधीनां दोपाणां च निदानं प्रवीति -- सर्वेषामेव रोगाणां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥ १७ ॥ कारणं हि द्विविध-विप्रकृष्टं सन्निकृष्टञ्चेनि । तत्र विप्रकृष्टं विरुद्धासा- म्यभोजनादि, सन्निकृन्ट वातादि, तस्य वातादेः सन्निकृष्टकारणत्वेन मर्वरोगे- धव्यभिचरितकारणत्वप्रदर्शनार्थमाह-सर्वेषामित्यादि । कुपितत्वेन धातूनां- दोपा एव मला अभिधायन्ते । तदुक्तं "मलिनीकरणान्मला" इति । मला:- दोषाः, कुपिताः क्रुद्धाः, सर्वेषां रोगाणाम् = आमयानाम्, निदानं = कार- रणम् । तदित्यनेन वातादयः परामृश्यन्ने । तस्य वातादेः, प्रकोपस्य, निदा- नं- कारण, विविध-नानाप्रकारकम् , अहितसेवनम् - विरुद्धानुष्ठानं, प्रोक्तं कथितमिति ॥ १७ ॥ इदानीमन्यत्रापि निदानार्थकरतां दर्शयति चरकीयवचन-- निदानार्थकरो रोगो रोगस्याप्युपजायते । तयथा ज्वरसन्तापाद्रक्तपित्तमुदीर्यते ॥ रक्तपित्ताज्ज्वरस्ताभ्यां शोपश्चाप्युपजायते । प्लीहाभिवृद्धया जरं जठराच्छोथ एव च। अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते ॥ दिवास्वापादिदोषश्च प्रतिश्यायश्च जायते प्रतिश्यायादथो कासः कासात्संजायते क्षयः । क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते ॥१८॥ ननु पूर्वोक्तमेव किं निदानमाहोस्त्रिदन्यदपीत्यत आह-निदानार्थकर इ. त्यादि । अपि शब्दोऽत्र भिन्नक्रमे । रोगः व्याधिरपि, रोगस्य आमयस्य, निदानार्थकरः, उपजायते = सम्पद्यने, निदानेन योऽर्थो व्याधिनिश्चयरूपः क्रि- यते साध्यते स रोगेणापीति भावः । रोगोऽपि रोगकर इति स्पष्टमनुक्त्वा निदा-