पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पञ्चलक्षणनिदानम् । हेतुविपरीतार्थकारिणां व्याधिविपरीतार्थकारिणां हेतुव्याधिविपरीतार्थकारिणामा- षधान्नविहाराणाम् , सुखावहम्-सुखजनकम् , उपयोगम्-उपायम् , उपश- य, विद्यात् जानीयात् । अयम्भावः-यद्गुणक्रिया हेतुस्तद्गुणक्रियाविपरीतगु- एक्रियावतामौषधान्नविहाराणां, यदगुणक्रियो व्याधिस्तद्गुणक्रियाविपरीतगुण- क्रियावताञ्चौपधानविहाराणां, यद्गुणक्रियो हेतुव्याधी चोभौ तदुभयश्च तद्गु रणक्रियाविपरीतगुणक्रियावतामौषधान्नविहाराणाम् । विपर्यस्तार्थकारिणामिति- औषधान्नविहाराणामित्यस्य विशंपणम् । अत्र द्वन्द्वाद् यदौषधं यच्चान्नं यो वा विहारो वा यदीपधान्नं ये चौषधान्नविहारा वा हेतुविपरीता न भवन्ति व्याधि विपरीता न भवन्ति, हेतुव्याध्योरुभयोर्वा विपरीता न भवन्ति । भवति च हंतु- विपरीतमौषधं वाऽनं वा विहारो वा यमर्थं तद्व्याधिप्रशमनं करोनि तदर्थकारि- णश्च स्वप्रभावेण तेषां चौषधान्नविहाराणाम् , औषधस्य विहारस्य वाऽन्नस्य वा विहारस्य वा द्वन्द्वस्य समुदायस्य वा मुखानुबन्ध उपयोग-उत्तरकालं सुखं बध्नानि य उपयोगः स उपशय इति । अथोदाहरणानि- हेतुविपरीतमौषधं यथा- शीतकफज्वरे शुष्ट्याधुणं भेषजम् । हेतुविपरीतमन्नं यथा-श्रमानिलजे ज्वरे रसौदनम् । हेतुविपरीतो विहारा यथा-दिवास्वप्नोत्थकफे रात्री जागरणं रूक्षं- दिवानिद्राविपरीतम् । इत्युक्ता हेतुविपरीता औषधान्नविहाराः। व्याधिविपरी- तमौषधं यथा-अतिसार स्तम्भनम् पाठाऽऽदि, विधे शिरीषः, प्रमेहे हरिद्रा । व्याधिविपरीतमन्नं यथा-ौक्ष्यगुणतो वायुवृद्धौ स्निग्धं घृतादिकम् , अतिसार सम्भनं मसूरयूषादि । व्याधिविपरीतो विहारो यथा-"रौक्ष्गुणतो वातवृद्धा दिवानिद्रा, उदावर्ते प्रवाहणम् । उभयविपरीतमौपधं यथा-शातगुणतोऽति- द्धवातशोथे दशमूलमुष्णं शीतहेतुविपरीत, वातशोथविपरीतञ्च । उभयविप- रीतमन्नं यथा-शीतनिमित्तवृद्धवातजे ज्वरे यवागूरुष्णा ज्वरनी च । उभयवि- परीतो विहारो यथा-स्निग्धदिवास्वप्नजायां श्लेष्मबृद्धौ तज्ञायां तन्द्रायां वा तदुभयविपरीतं रात्रिजागरणम् । हेतुविपरीतार्थकारि-औषधं यथा-कटर- सातिजनिते शुक्रक्षये रूक्षः पुराणगोधूमो वृष्यः। पित्तप्रधाने पच्यमानव्रणशोथे चान्न विदाहि द्रव्यम् । उभयविपरीतार्थकारी विहारों यथा-भीतिजनिताया- मनिलबृद्धौ भयजे च ज्वरे कामः, कामजे वा ज्वरे शोकः क्रोधश्च । व्याधिविप- रीतार्थकारि औषधं यथा-छर्यो वमनकारक मदनफलादिकम् । व्याधिवि- परीतार्थकारि चान्नं यथा-श्लेष्मवृद्धिजनिते प्रमेहे पुराणा यवगोधूमा वातज- न्यातिसारे रेचनार्थ दुग्धम् । व्याधिविपरीतार्थकारी विहारस्तु-सस्नेह पित्त-