पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुधोपेते माधवनिदाने- प्रागरूपमाह-प्रागरूपमिति । येन = जृम्भाऽऽलस्यगात्रगौरवादिना, उ- त्पित्सुः उद्युभूपुः। उत्पत्तिमिच्छति-उत्पित्सतीति-उत्पित्मः । पद्यतेः सन्नन्तात् 'सनाशंसभिक्ष उः' इत्युप्रत्ययेन सिध्यति । आमयो रोगो ज्वरादिः, "रोग- व्याधिगदामया" इत्यमरः । दोषविशेपेण वातादिजन्यासाधारणवेपथ्वादि- ना, अनधिष्ठितः असम्बद्धः । लक्ष्यते ज्ञायते, तत्प्रागरूपं पूर्वरूपं, विद्या- दिनि शेपः। पूर्वरूपं द्विविधं-सामान्यं विशिष्टञ्चेति । तत्र सामान्यमुक्त्वा विशिष्टमाह-लिङ्गमित्यादिना। व्याधीनां रोगाणाम्, अल्पत्वाद= अगुवाद , अव्यक्तम्-अस्पष्ट, लिङ्ग लक्षणं, यथायथं- -यस्य रोगस्य यद् रूपं तदेवाविस्पष्टं तम्य पूर्वरूपं विज्ञेयमिति । के चित्तु-स्थानसंश्रयिणः क्रुद्धा- भाविव्याधिप्रबोधकम् । दीपाः कुर्वन्ति यल्लिङ्ग पूर्वरूपं तदुच्यते । नन्नातिरमणीय, राजयक्ष्मग्गः पूर्वरूपम्य तृणकेशादिनिपातस्याव्यापक- वाद् । तस्माद् भविष्यव्याधिख्यापकत्वलिङ्ग पूर्वरूपलक्षणं विज्ञेयम् ।।६।। रूपम् --तदेव व्यक्ततां यातं रूपमित्यभिधीयते । संस्थानं व्यञ्जन लिङ्गं लक्षणं चिह्नमाकृतिः ॥ ७ ॥ रूपमाह-तदेवेति । तदेव-प्रागरूपमेव पूर्वोक्त शरीरसम्बन्धि, व्यक्त- ताम् उद्भूततामिति यावत् । यातम् उत्पन्नं, रूपमिति,अभिधीयते कथ्य- ते, बुधैरिति शंषः । शास्त्रे व्यवहारार्थ रूपपर्यायानाह-संस्थानमिति। सं- स्थान, व्यञ्जनं, लिङ्ग, लक्षणं, चिह्नम् , आकृतिः, एते शब्दा रूपस्य पर्या- याः शास्त्रे व्यवहृताः ॥ ७ ॥ उपशयमाह-हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थकारिणाम् । औषधान-विहाराणामुपयोग सुखावहम् ॥ विद्यादुपशय व्याधेः स हि सात्म्यमिति स्मृतः॥८॥ उपशय लक्षयितुमाह-हेतुव्याधीत्यादि । ( युग्मम् ) हेतुश्च न्याधिश्च हेतु- न्याधी तयोर्व्यस्तसमस्तयोविपर्यस्ता विपरीता हेतुव्याधिविपर्यस्तास्तथा विपर्य- स्तानामर्था विपर्यस्तार्थाः, तयोरेव विपर्यास्तं विपरीतमर्धं कुर्वन्तीति विपर्यस्ता- थंकारिणः, हेतुल्याधिविपर्यस्ताश्च विपर्यसार्थकारिणश्च हेतुव्याधिविपर्यस्त- विपर्यस्तार्थकारिगः, तेषां तथोक्तानाम् । विपर्यास्तानामर्थ कुर्वन्तीति प्रकृत- त्वाद्धेतुव्याधिविपर्यास्तानामित्यर्थः । औषधञ्च अन्नञ्च विहारश्च औषधानविहा- रास्तेषां तथोक्तानाम् , हेतुविपरीतानां व्याधिविपरीतानां हेतुव्याधिविपरीताना-