पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सुधोपेते माधवनिदाने- श्लैष्मिकमाह-शीतमित्यादि । अचेष्टनम् - निर्व्यापारता। निचयात्म- कस्य-सान्निपातिकस्य, हरुलासः- उपस्थितवमनत्यम् ॥ १२-१३ ॥ औषधकल्पनार्थ द्वन्द्वदोषविवेकः- निमित्तरूपाण्युपलभ्य गुल्मे द्विदोषजे दोषबलावलं च । व्यामिश्रलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् ॥१४॥ त्रिदोषगुल्मस्य लक्षणम महारुज दाहपरीतमश्मवद्धनोन्नतं शीघ्रविदाहि दारुणम् । मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् ॥१६॥ असाध्यत्वमाह-महारुजमित्यादि । महारुर्ज=पीडाऽतिशयोपेतं, दाहप. रीतं-दाहव्याप्तसकलकलेवरम् , अश्मवद्धनोन्नत-पाषाणवस्कठिनोन्नतम्।१५। रक्तगुल्मस्य हेतुलक्षणे- नवप्रसूताऽहितभोजना या या चामगर्भ विसृजेहतौ वा। वायुहि तस्याः परिगृह्य रक्तं करोति गुल्म सरुजं सदाहम् । पैत्तस्य लिड्न समानलिविशेषणं चाप्यपरं निबोध ॥१६॥ यः स्पन्दते पिण्डित एव नाचिरात्सशूलः समगर्भलिङ्गः । सरोधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः ॥१७॥ रक्तगुल्ममाह-नवेत्यादि । नवप्रसूता-अचिरोत्पन्नसन्ताना, नारी या ऋतौ पुष्पसमये, अहितभोजना-अपथ्यभोजना, या च, आमगर्भन. वममासादाक् प्रसूते, तस्या वायू रक्तं परिगृह्य गुल्म जनयति । पैत्तिकगुल्म. समानलक्षणश्च स भवति । सः, पिण्डित एव समुदित एव, स्पन्दते, नाङ्गैः- अवयवैन किनिचलति । समगर्भलिङ्गः गर्भाकृतितुल्यलक्षणः। भावादर्श- नमुखस्रवणचूचुककृष्णत्वादिगर्भलक्षणसम्पन्न हति यावत् । 'मासे व्यतीते दशमे चिकित्स्यः, व्याधिप्रभावात् तावतव समयेन तस्य सुखसाध्यत्वाद, चोक्तमन्यत्र-रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणमिति ॥ १६-१७ ॥ असाध्यरूप-संचितः क्रमतो गुल्मो महावास्तुपरिग्रहः । कृतमूल: सिरानद्धो यदा कर्म इवोत्थितः ॥१८॥ दौर्बल्यारुचिल्लासकासच्छधरतिज्वरी। तृष्णातन्द्राप्रतिश्याययुज्यते स न सिध्यति ॥१९॥ पुनश्च- गृहीत्वा सज्वरं श्वासच्छतीसारपीडितम् । हन्नाभिहस्तपादेषु शोथः कर्षति गुलिमनम् ॥२०॥ यथा