पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृद्रोगनिदानम् २९॥ १२१ पुनश्च-श्वासः शुलं पिपासाऽनविद्वेषो ग्रन्थिमूढता। जायते दुर्बलत्वं च गुल्मिनो मरणाय वै ॥२१॥ इति श्रीमाधवकरविरचिते माधवनिदानेऽष्टाविंश गुल्मनिदानं समाप्तम् ॥ २॥ अपरमप्यस्यासाध्यलक्षणान्याह-सञ्चित इत्यादिना । क्रमशः सञ्चितः= एकत्रस्थितः, चिकित्सोपेक्षणाद् वृद्धिंगत इति यावत् । महावास्तुपरिग्रहः सक- लोदरल्याप्तः, कृतमूला यात्वादिकृताश्रयः । सिरानद्धः सिराजालव्याप्तः । ननु विद्रधिः पच्यते गुल्मस्तु न पच्यते निराश्रयत्वात, तथा च सुश्रुतः-न निबन्धो- ऽस्ति गुल्मस्य विद्रधिः सनिबन्धनः । गुल्मस्तिष्ठति दोषे स्वे विधि- मौसशोणिते ॥ 'विद्रधिः पच्यते तस्माद् गुल्मः कापि न पच्यत' इति । चरके तु-विदाहशूलसंक्षोभस्वप्ननाशारतिज्वरैः। विदयमानं जानीया. दू गुल्म तमुपनाहयेत्' । इति प्रतिपादितमस्ति, तस्माद् गुल्मः पच्यत एवेति, तत्र कः सिद्धान्त इति चेदत्रोच्यते--गुल्मो न पच्यते निराश्रयत्वाद्, यदा तु हेतुवशान्मांसाधाश्रयमधितिष्ठति तदापच्यमानो विदाहहेतुक विद्रधित्वमाप्नोति । तथा चोक्त-स वै शीघ्रविदाहित्वा विधीत्यभिधीयत इति ॥१८-२१॥ इति सुधायां गुल्मनिदानम् ॥ अशैकोनत्रिंशं हृद्रोग-निदानम् ॥ २६ ॥ हेतुः- अत्युष्णगुर्वन्नकषायतिक्तश्रमामिघाताध्यशनप्रसङ्गैः । सचिन्तनगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः॥१॥ सम्प्राप्तिः-दूषयित्वा रस दोषा विगुणा हृदयं गताः ।। इदिवाओं प्रकुर्वन्ति हुदोगं तं प्रचक्षते ॥२॥ वातजहृद्रोगः-आयम्यते मारतजे हृदयं सुधते तथा । निर्मण्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ॥३॥ पित्तजद- तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदयलमः । द्रोगः- भूमायनं च मूर्छा च स्वेदः शोषो मुखस्य च ॥४॥ कफजहृद्रोगः-गौरवं कफसंस्त्रावोऽरुचिः स्तम्भोऽनिमार्दवम् । माधुर्यमपि चास्यस्य पलासावतते हदि ॥५॥