पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुल्मनिदानम् २८॥ ११९ पूर्वरूपम्-उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि । आटोप आध्मानमपक्तिशक्तिरासतगुल्मस्य वदन्ति चिह्नम्॥५॥ पूर्वरूपमाह-उद्गारेत्यादि । पुरीषबन्ध गाढविटकता, आटोपः= पत्र रुजापूर्वकः क्षोभः । अपक्तिशक्तिः- मन्दाग्नित्वम् । आसन्नगुल्मस्य - झ. टितिजायमानगुल्मस्य ॥५॥ सामान्य- अरुचिः कृच्छ्रविणमूत्रवातताऽन्त्रविकूजनम् । रूपम्- आनाहश्चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत् ॥ ६ ॥ वातगुल्मस्य रूक्षान्नपानं विषमातिमानं विचेष्टनं वेगविनिग्रहश्च । हेतुलक्षणे-शोकोऽभिधातोऽतिमलक्षयश्च निरनता चानिलगुल्महेतुः॥णा यः स्थानसंस्थानरुजाविकल्पं विड्वातसई गलवक्त्रशोषम् । श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपावोसशिरोरुज च ॥८॥ करोति जीणे त्वधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च । वातात्स गुल्मो न च तत्र रूक्ष कषायतिक्त कटु चोपशेते ॥९॥ वातिकमाह-क्षेत्यादि । विषमातिमात्रमन्नपानस्य विशेषणम् । अतिम- लक्षया-विरेचनातियोगजः । स्थानसंस्थानरुजां विकल्पः विकल्पशब्दः स्थानादिभिः प्रत्येकमन्वेति । स्थानविकल्पो यथा-कदाचिन्नाभौ कदा चित्पा- वयोः। संस्थानविकल्पो यथा-कदा चिदल्पो महान् वा कदा चिद् , रुजा. विकल्पो यथा-कदा चिदल्पा कदा चिन्महती तोदभेदाचनेकरूपा वा। नो- पशेते -न सुखमनुभवति ॥ ७-९ ॥ पित्तगुल्मस्यकट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवाः । हेतुलक्षण-आमाभिधातोरुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् १० ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजने च । स्वेदो विदाहो वणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् ११ पैत्तिकमाह-कट्वित्यादि । हुताशसेवा-वह्निसेवनम् । जीर्यति-सप्त- म्यन्तपदमिदं भोजन इत्यस्य विशेषणम् ।।१०-११ ॥ कफगुल्मस्य शीतं गुरु स्निग्धमवेष्टनं च सम्पूरणं प्रस्वपनं दिवाच । हेतुलक्षणे-गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निवयात्मकस्य॥१२॥ स्तैमित्यशीतज्वरगात्रसादहरूलासकासारुचिगौरवाणि । शैत्यं साल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य१३