पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सुधोपेते माधवनिदाने- आमलक्षणं बहुविधं वदन्ति तन्त्रकाराः । तथाहि-अष्मणोऽल्पबलत्वेन धातुमाधमपाचितम् । दुष्टमामाशयगतं रसमाम प्रचक्षते ॥ आमाशय. स्थः कायाग्नेःर्बल्यादविपाचितः । आच आहारधातुर्यः स आम हति कीर्तितः ॥ अविपक्कमसंयुक्तं दुर्गन्धं बहु पिच्छिलम् । सदनं सगात्रा. णामाम हत्यभिधीयते आहारस्य रसः शेषोयोन पकोऽग्निलाघवात । स मूलं सर्वरोगाणामाम इत्यभिधीयते ॥ आममन्नरसं के चित् के चित्तु मलसंचयम् । प्रथमां दोषदुष्टिं च के चिदाम प्रचक्षतेगा इत्यादि । सामान्यरूपम्-अङ्गमर्दोऽरुचिस्तृष्णा आलस्यं गौरवं ज्वरः । अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ॥ ६॥ विशेषरूपं -स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत्। हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ॥७॥ करोति सरुज शोथं यत्र दोषः प्रपद्यते । स देशो रुज्यतेऽत्यर्थे व्याविद्ध इव वृश्चिकैः ॥ ८॥ अतिबृद्धामवातलक्षणमाह-स इत्यादिना । वृश्चिक: कीटविशेषः व्याविद्धः दष्ट इव, ॥ ७-८॥ उपद्रवाः-जनयेत्सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम् । उत्साहहानि वैरस्यं दाहं च बहुमूत्रताम् ॥ ९॥ कुक्षौ कठिनतां शूलं तथा निद्राविपर्ययम् । तृट्छर्दिभ्रममूर्छाश्च हृद्मह विड्विबद्धताम् । जाड्यान्नकूजमानाहं कष्टांश्वान्यानुपद्रवान् ॥१०॥ कुक्षौ कठिनताम्-उदरकाठिन्यं, निद्राविपर्यय-दिवास्वापो रात्रि जागरणम्, जाख्यम् प्रकर्मण्यम् , अन्यान् , उपद्रवान् - संकोचादीन्, जनयेत् ॥ ९-१०॥ इति सुषायामामवातनिदानम् ।

दोषानुबन्ध-पित्तात्सदाहरागं च, सशूलं पवनानुगम् । रूपं- स्तिमितं गुरुकण्हूं च कफदुष्टं तमादिशेत् ॥ ११ ॥ साध्यासा- एकदोषानुगः साध्यो द्विदोषो याप्य उच्यते। सर्वदेहचरः शोथः स कृच्छ्रः सानिपातिकः ॥१२॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चविंशमामवात- निदानं समाप्तम् ॥ २५ ॥ ध्यता-