पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. शूलादिनिदानम् २६ । ११३ अथ षविशं शूल-परिणामशूलाग्नद्रवशूलनिदानम् ॥२६॥ संख्या-दोषः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् । सर्गेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ॥१॥ आमवातेऽपि शूलसम्भवात्तदनन्तरं शूलनिदानमाह-दोपैरिस्यादि। शूल:, अष्टधा- अष्टविधः, दोषः पृथक् त्रयः-वातिकः, पैत्तिकः, श्लैष्मिकः, समस्ते- न-सन्निपातेन चैकः सान्निपातिकः, आमेन चेक:-प्रामजः, द्वन्द्वेन दोषेण च यो वातपैत्तिक इत्यादि, एवमष्टविधः । सर्वेष्वेतेषु शुलेषु पवनः -वायु, प्रभुः-प्रधानं, कत्तेति यावत् । अस्य शूलस्य प्रागुत्पत्तिस्तन्त्रकारर्वर्णिता, तथाहि- 'अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमापतन्तं सहसा निरीक्ष्य भयादितो विष्णुतर्नु प्रविष्टः ॥ स विष्णुहुक्कारविमोहितात्मा पपात भूमौ प्रथितः स शुलः । स पञ्चभूतानुगतं शरीरं प्रदूषयत्यस्य हि पूर्वदृष्टि । इति । शूलजनकत्वेनैव शूलसंशेति । सुभुतोऽप्यस्य निरुक्तिमाह- 'शकुस्फोटनवत्तस्य यस्मात्तीबा हि वेदना । शूलासक्तस्य भवति तस्माच्छूलमिहोच्यत इति ॥१॥ वातशूलस्य कारणलक्षणे- व्यायामयानादतिमैथुनाच प्रजागराच्छीतजलातिपानात् । कलायमुद्राढकिकोरदूषादत्यर्थरूक्षाध्यशनामिघातात ॥२॥ कषायतिकातिविरूढजानविरुदबल्लूरकशुष्कशाकात् । विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादसिहास्यभाष्यात् ॥३॥ वायुः प्रवृद्धो जनयेदि शूलं हत्पार्वपृष्ठत्रिकबस्सिदेशे। जीणें प्रदोषे च धनागमे च शीते च कोपं.समुपैति गाढम् ॥४॥ मुहुर्मुहुरोपसमप्रकोपी विद्धावसंस्तम्भनतोदभेदैः। संस्वेदनाभ्यानमर्दनायैः स्निग्धोष्णभोज्य शमं प्रयाति ॥६॥ वातिकमाह-व्यायामेत्यांदि । कलाय='मटर' इति ख्यातः । आडकी तुवरी । कोरदूषः - कोद्रवः । अभिवाता-दण्डादिनिपातः । पनागमे वर्षा- काले । गाढम्मत्यर्थम् ॥२-५॥ पित्तशुलस्य कारणलक्षणे- क्षारातितीक्ष्णोष्णविदाशितलनिष्पावपिण्याककुलत्थायूषैः । कटवालसौवीरसुराविका क्रोधानकायासरविप्रतापा॥६॥ समा०