पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ वातरक्तनिदानम् २३ । साध्यदशा-नरान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ॥ ८॥ तसाध्यदशा-विसर्पदाहरुक्सङ्गमूर्छारुऽव्यग्निमार्दवैः । क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः ॥ ८१ ॥ पुनश्च-शूनं सुप्तत्वचं भग्न कम्पाध्माननिपीडितम् । रुजातिमन्वं च नरं वातव्याधिविनाशयेत् ॥ ८ ॥ वातोपद्रवानाह-विसत्यादि । वाता:-पवनविकाराः, पक्षवधादयो- विसर्पादिभिः क्षीणबलमांसं घ्नन्ति । शूनं शोथोपेतं, सुप्तत्वचं-स्पर्शान- भिज्ञ त्वचं, भग्न भग्नास्थिमन्तं , रुजाऽऽत्तिमन्तं वेदनाऽतिशयोपेतम् ८१-८२ प्रकृतिस्थवा-अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः । तरूपम्-वायुः स्यात्सोऽधिकं जीवेद्वीतरोगः समाः शतम् ॥ ८३ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्वाविंशं वातव्याधि- निदानं समाप्तम् ॥२२॥ प्रकृतिस्थस्य पञ्चविधस्यानिलस्य लिङ्ग कार्य चाह- -अव्याहतेत्यादि । यस्य-पुरुषस्य, अव्याहतगतिः- अप्रतिहतमार्गः, स्थानस्थः स्वाश्र- यस्थः, प्रकृतिस्थितः = स्वाभाविकः, नातिबद्धो नातिक्षीणः, स्यारस पुरुषोऽ. धिक वीतरोगः- नीरोगः, सन् शतं समाः-वर्षाणि, जीवेत । पञ्चदिनाधिकं सर्विशं वर्षशतं मनुष्याणां जीवनम्-यथाह, वराह:-"समाःषष्टिविघ्ना मनु. जकरिणां पञ्च च निशा" इत्यादि ॥ १२ ॥ इति सुधायां वातव्याधिनिदानम् । 1 . मथ त्रयोविंशं वातरक्त-निदानम् ॥ २३॥ कारणं-लवणाम्लकटुझारस्निग्धोष्णाजीर्णभोजनः । क्छिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥१॥ कुलत्यमाषनिष्पावशाकादिपललेक्षुभिः । दध्यारनालसौवीरशुक्ततक्रसुराऽऽसवैः॥ विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः ॥ २ ॥ प्रायशः सुकुमाराणां मिथ्याऽहारविहारिणाम् । स्थूलानां सुखिना चापि कुप्यते वातशोणितम् ॥३॥ वातव्याथिविशेष वातरक्तमाह-लवणेस्यादि। लवणाम्लादिभोजनस्तथा क्लिनशुष्कादिपदार्थोपसेवनैस्तथा कुलत्थादिभिर्द वारनालादिभिर्विरुद्धाध्यशना-