पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सुधोपेते माधवनिदाने- प्रतितूनीमाह-गुदेत्यादि । या प्रतिलोमम् - ऊर्ध्वं वेगैः वातकृतोद्गमैः, पक्काशयं याति सा प्रतितूनीति ॥ ७० ॥ आध्मानरोगः-साटोपमत्युप्ररुजमाध्मातमुदरं भृशम् । आध्मानमिति तं विद्याडोरं वातनिरोधजम् ॥ १ ॥ आध्मानमाह-साटोपेत्यादि । आटोपेन सह वर्तत इति साटोपम् । आध्मात-पवनपरिपूर्णचर्मपुटकस्थानीयम् , घोर कष्टप्रदम् ॥ ७१ ॥ प्रत्याध्मान-विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् । रोगः-प्रत्याध्मानं विजानीयात्कफव्याकुलितानिलम् ॥ ७२ ॥ प्रत्याध्मानमाह-प्रामाशयोत्थितं, तदेव आध्मानमेव, विमुक्तपार्श्वह- दयं-विमुक्तं पार्श्वहृदयं येन तत्तथा, कफव्याकुलितानिलं - श्लेष्मावृत. पवनम् ॥ ७२ ॥ वाताष्ठीला-नाभेरधस्तात्संजातः संचारी यदि वाऽचलः । अष्ठीलावद्धनो ग्रन्थिरूलमायत उन्नतः । वाताष्ठीला विजानीयावहिर्मार्गावरोधिनीम् ॥ ७३ ॥ अष्ठीलामाह-नाभेरित्यादि । नाभेः, अधस्ताद -अधोभागे, संचारी- चलः, अचलो वा अष्ठीलावत् = अष्ठीला उत्तरापथे वर्तुलः पाषाणविशेषः , वर्तुला कर्मकारस्य लौहपात्री वा, बहिर्मार्गावरोधिनी-मलमूत्रानिलावरो- धिनीम् ॥ ७३॥ प्रत्यष्ठीला-एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम् । प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ॥ ४ ॥ मूत्रावरोषः-मारुतेऽनुगुणे वस्तौ मूत्रं सम्यक् प्रवर्तते। विकारा विविधाश्चात्र प्रतिलोमे भवन्ति हि ॥ ७ ॥ कम्पवातः ख-सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसंज्ञकः । ल्लीरोगश्च-खल्ली तु पादजयोरुकरमूलावमोटनी ॥ ७६ ॥ ऊर्ध्ववात: :-अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा। करोत्युद्गारबाहुल्यमूळवातः स उच्यते ॥ ७ ॥ अनुक्तवातरो-स्थाननामानुरूपैश्च लिङ्गः शेषान्विनिर्दिशेत् । गविवेकः-सर्गेष्वेतेषु संसर्ग पित्ताचैरुपलक्षयेत् ॥ ८ ॥ साध्यासाध्य-हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः । विवेकः--कालेन महताऽऽल्यानां यत्नासिध्यन्ति वा नवा ॥ ७९ ॥