पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सुधोपेते माधवनिदाने- दिभिर्वा प्रायशः सुकुमाराणां-सुकुमारप्रकृतिकानां पुंसां मिथ्याऽऽहारविहारिणां स्थूलानां सुखिनो वा वातशोणितं कुप्यतीत्यन्वयः। पिण्याकः तिलकल्कः , निष्पा:-शिम्बिः , पललं = मांसम् , सुरा-पष्टी, आसवः मधम्, विरुद्धाशनं क्षीरमत्स्यादि , अध्यशनं = भुक्तस्योपरिभुक्तम् , ननु रक्तगत. वातस्य वातव्याधावेव 'रुजस्तीवाः ससंन्ताप' इत्यादिवर्णनात् पुनस्तद- भिधानमसङ्गतमिति चेदत्रोच्यते-- ते-वातरक्तं हि दुष्टेन वा तेन दुष्टेन रक्तेन च विशिष्टसम्प्राप्तिकं विकारान्तरमेव , रक्त वाते तु वात एव दुष्टो रक्तमदुष्टमिति भेदः ॥१-३॥ संप्राप्तिः-हस्त्यचोष्ट्रर्गच्छतश्चाश्नतश्च विदाह्यन्नं स विदाहोऽशनस्य । कृत्स्नं रक्तं विवहत्याशु तच्च सस्त दुष्ट पादयोश्चीयते तु ॥४॥ तत्संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ॥५॥ सम्प्राप्तिमाह-हस्त्यश्वेति । हस्त्यादिभिर्गच्छतो विदाह्यन्नम् , अश्नतः- भुजानस्य, वा पुंसः सोऽशनस्य विदाहः, कृत्स्नं-समग्रं, रक्तं विदहति तच्च रक्तं पादयोः, चीयते= एकत्रीभवति, इति तेन=स्वकारणकुपितेन वायुना संपृक्त-सम्बद्धं, तद्वातरक्तमित्युच्यते, तत्प्राबल्यात वातप्राबल्यात् ॥४-५॥ ( स्पर्शोद्विनौ तोदभेदप्रशोषस्वापोपेतौ वातरक्तेन पादौ । पित्तासाभ्यामुग्रदाही भवेतामत्यर्थोष्णौ रक्तशोफो मृदू च ।६॥ कण्डूमन्तौ श्वेतशीतौ सशोफौ पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते । सर्वदुष्ट शोणिते चापि दोषाः स्वं स्वं रूपं पादयोर्दर्शयन्ति) ॥७॥ पूर्वरूपं- स्वेदोऽत्यर्थ न वा कार्य स्पर्शाज्ञत्वं क्षतेऽतिरुक् । सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ॥ ८॥ जानुजङोरुकटयंस-हस्तपादाङ्गसन्धिषु । निस्तोदः स्फुरणं भेदो गुरुत्वं सुतिरेव च ॥९॥ कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् । वैवर्ण्य मण्डलोत्पत्तिर्वातामुक्पूर्वलक्षणम् ॥१०॥ पूर्वरूपमाह-स्वेदेत्यादि । स्वेदा धर्मनिर्गमः, अत्यर्थं भवति न वा भव- तीति व्याधिमाहात्म्याद् बोद्धयम्। निस्तोदः-व्यथा, सुप्तिः- स्पर्शहानिः, असकृत-पुनः पुनः ॥६-१०॥ वाताधिकवातरक्त-वातेऽधिकेऽधिकं तत्र शुलस्फुरणभजनम् । लक्षणम् शोधस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः॥११॥