पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सुधोपेते माधवनिदाने- पित्तकफावृतानां प्राणादिपञ्चविधानां पवनानां लक्षणान्याह-प्राण इत्या- दिना । वरस्यं-मुखस्य स्वादाभावः, विण्मूत्रे सक्ते मूत्रवर्चसोरवरोधः, दण्डकः-लगुडवत्स्तम्भः ॥ २४-२६ ॥ अथ वाग्भटोक्तं द्वाविंशतिविधं वायोरावरगम्- वायोरावरणं चातो बहुभेदं प्रचतते। लिङ्ग पित्तावृते दाहस्तृष्णा शूलं भ्रमस्तमः ।। १ ।। कटूष्णेश्चाम्ललवणेविंदाहः शीतकामिता। शैत्यगौरवशूलानि कटवाद्युपशयोऽधिकम् ॥ २ ॥ लधनायासरूक्षोष्ण-कामिता च कफावृते। रक्तावृते सदाहात्तिस्त्वङमासान्तरयोभृशम् ॥ ३ ॥ भवेत् सरागः श्वयथुर्जाय- ते मण्डलानि च । मांसेन कठिनः शोफो विवर्णः पिडिकास्तथा ॥ ४॥ हर्षः पिपीलिकानां च सञ्चार इव जायते। चलः स्निग्धो मृदुः शीतः शोफो गात्रे. ध्वरोचकः ॥ ५ ॥ आढयवात इति शेयः स कृच्छो मेदसाऽऽवृते । स्पर्शम. स्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति ॥ ६ ॥ सूख्येव तुयतेऽत्यर्थमङ्ग सीदति शूल्यते । मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ ७॥ शूलं च पीच्यमानेन पाणिभ्यां लभते सुखम् । शुक्रावृतेऽतिवेगो वा न वा निष्फलताऽपि वा ॥८॥ मुक्त कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले । मूत्राप्रवृत्तिराध्मान बस्ती मूत्रावृते भवेत् ॥९॥ विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति । बजत्याशु- जरां स्नेहो भुक्ते चानह्यते नरः ॥ १० ॥ शकृत्पीडितमन्नेन दुःखं शुष्क चि. रात् सजेत् । सर्वधात्वावृते वायौ श्रोणीवक्षणपृष्ठरुक् ॥ ११ ॥ विलोमो मा- रुतोऽस्वस्थं हृदयं पीडयतेऽति च । भ्रमो मूर्छा रुजा दाहः पित्तन प्राण आवृते ॥ १२ ॥ विदग्धेऽन्ने च वमनमुदानेऽपि भ्रमादयः। दाहोऽन्तररुजा भंशो- दाहो व्यानेन सर्बगः ॥१३ ॥ कुमोनचेष्टासङ्गश्च संतापः सहवेदनः । समान- ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट् ॥ १४ ॥ दाहश्च स्यादपाने तु मले हारिद्रव. र्णता । रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु ॥ १५ ॥ श्लेष्मणा त्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः। ष्ठीवनक्षवल्दारनिश्वासोच्छ्वाससंग्रहः ॥१६॥ उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः । चलवर्णप्रणाशश्च व्याने पर्वास्थिवा. ग्ग्रहः ॥ १७ ॥ गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । समानेऽतिहिमाङ्ग- त्वमस्वेदो भन्दवह्निता ॥१६॥ अपाने सकर्फ मूत्रशकृतः स्यात्प्रवर्तनम् । इति द्वाविंशतिविधं वायोरावरणं विदुः ॥ १९ ॥ प्राणादयस्तथान्योन्यमावृण्वन्ति यथाक्रमम् । सर्वेऽपि विंशतिविषं विवादावरणं च सत् ॥ २०॥ निश्वासो-