पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वातव्याधिनिदानम् २१ १०१ च्छवाससंबाधः प्रतिश्यायः शिरोग्रहः । हृद्रोगो मुखशोषश्च प्राणेनोदान आ. वृते ॥ २१॥ उदानेनावृते प्राणे वौँजोवलसंक्षयः। दिशाऽनया च विभजे- सर्वमावरणं भिषक् ॥ २२ ॥ इति द्वाविंशतिविधं वायोरावरणं समाप्तम् ।) आक्षेपकः--यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः। तदाऽऽक्षिपत्याशु मुहुर्मुहुर्देह मुहुश्चरः ॥ मुहुर्मुहुचाक्षेपणादापक इति स्मृतः ॥२७॥ भाक्षेपकलक्षणमाह-यदेत्यादि । देहम् आक्षिपति-सञ्चालयति । निरुक्तिमाह-मुहुर्मुहुराक्षेपणादाक्षेपक इति ॥ २७ ।। अपतन्त्रकः-कुद्धः स्वः कोपनर्वायुः स्थानादूर्ध्वं प्रपद्यते ॥२८॥ पीडयन् हृदयं गत्वा शिरःशङ्खौ च पीडयन् । धनुर्वन्नमयेद्वात्राण्याक्षिपेन्मोहयेत्तदा ॥२९॥ स कृच्छादुच्छ्रवसेच्चापि स्तब्धाक्षोऽथ निमीलकः । कपोत इव पूजेच्च नि:संशः सोऽपतन्त्रकः ॥ ३०॥ अपतानकः-दृष्टिं संस्तभ्य संज्ञां च हत्वा कण्ठेन कूजति । हृदि मुक्त नरः स्वास्थ्यं याति मोहं वृते पुनः ॥ वायुना दारुणं प्राहुरेके तदपतानकम् ॥ ३१ ॥ अपतन्त्रकापतानकावाह-क्रुद्ध इत्यादिना। स्थानात् = पक्काशयाद् , ऊवं - हृदयम् , स्तब्धाक्षः = स्तम्धनेत्रः, निमीलक:-निमीलितनेत्रः, वायुना (का) इदि मुक्ते स्वास्थ्य वृते-आते, हृदये मोहं याति॥२८-३१।। दण्डापतानक:-कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति दण्डवत्स्तम्भये देह स तु दण्डापतानकः ॥ ३२ ॥ धनुःस्तम्भः-धनुस्तुल्यं नमेधस्तु स धनुःस्तम्भसंज्ञकः ॥ ३३ ॥ आभ्यन्तरायामः-अङ्गुलीगुल्फजठरहद्वक्षोगलसंश्रितः । स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् ॥ ३४ ॥ विधाक्षः स्तब्धहनुर्भग्नपार्श्वः कर्फ वमन् । अभ्यन्तरं धनुरिव यदा नमति मानवम् ॥ तदाऽस्याभ्यन्तरायाम कुरुते मारुतो बली ॥३५॥