पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वात:- वातव्याधिनिदानम् २३ । इन्द्रियवध-करणासामर्थ्यम् , समीरणो वायुः ॥ १५-१६ ॥ रक्तगतवातः-रुजस्तीवाः ससन्तापा ववये कृशताऽरुधिः । गाने चारूंषि भुक्तस्य स्तम्भश्वासृग्गतेऽनिले ॥१७॥ मांसमैदोगत-गुर्वङ्ग तुद्यतेऽत्यर्थे दण्डमुष्टिहतं यथा । वातः- सहक श्रमितमत्यर्थं मांसमेदोगतेऽनिले ॥ १८ ॥ अस्थिमज्ज- भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः । अस्वप्नः सतता रुक् च मज्जास्थिकुपितेऽनिले ॥१९॥ अरूंषि व्रणाः । असृग्गते-रक्तप्राप्ते ॥ १७-१९ ।। शुक्रगतवातः-क्षिप्रं मुञ्चति बध्नाति शुक्र गर्भमथापि वा। विकृति जनयेचापि शुक्रस्थः कुपितोऽनिलः ॥ २० ॥ शुक्र मुञ्चति वीर्य पातयति ॥ २० ॥ सिरागतवातराग:-कुत्सिरागतः शूलं सिराऽऽकुञ्चनपूरणम् ॥ २१ ॥ सिऽऽराकुञ्चनपूरणम्-सिराया आकुचन-संकोचः पूरणं - स्थूलता २१ स्नायुगतवात-स बाह्याभ्यन्तरायाम खल्ली कोज्यमथापि वा। रोग:- सर्वाङ्गकाङ्गरोगांश्च कुर्यात्स्नायुगतोऽनिलः ॥ २२ ॥ खल्ली-वातव्याधिविशेषम् ॥ २२ ॥ सन्धिगतवातरोगः-हन्ति सन्धिगतः सन्धीन शूलाटोपौ करोति च ॥२३॥ (प्राणोदानौ समानश्च व्यानश्चापानाएव च । स्थानस्था मारुताः पञ्च यापयन्ति शरारिणम् ॥) पित्तकफावृतानां क्रमेणप्राणादिवायूनां लक्षणनि- प्राणे पित्तावृते छर्दिहश्चैवोपजायते । दौर्बल्यं सदनं तन्द्रावेरस्यं च कफावृते ॥ उदाने पित्तयुक्ते तु दाहो मूर्छा भ्रमः क्लमः । अस्वेदहर्षों मन्दोऽग्निः शीतता च कफावृते ॥ स्वेददाहौष्ण्यमाः स्युः समाने पित्तसंवृते । कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते ॥ २४ ॥ अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता । अधः काये गुरुत्वं च शीतता च कफावृते ॥२९॥ च्याने पित्तावृते दाहोगात्रविक्षेपणं लमः। स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते ॥ २६ ॥