पृष्ठम्:महासिद्धान्तः.djvu/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मध्यमाध्यायः 3 गोलोपरि भूगोलपृष्ठस्यउपर मध्ये लङ्का। अतः सौम्य उत्तरस्थेो मेरुः । याम्यश्च हुताशनो वडवाग्नेिः कुमेरुरित्यर्थः । तदुपरिगो मेरुकुमेरूपरिगो धुवताराक्दो भगणे भपञ्जरः सखगो ग्रहगोलसहितो भ्रमति । कुत्र कथमित्यस्याग्रिमश्लोकेनोत्तरम् ॥३॥ " इदानी मपञ्जरभ्रमणे विशेषमाह । , लङ्कादिपुरचतुष्कोपरि नियतमवहमारुता क्षितः । " दिनरात्री तत्र समे नान्यत्राक्षमथोपचयात् ॥४॥ स पूर्वादितो मपञ्जरो नियतेन निश्चितैकरूपपश्चिमगमनेन प्रक्हाभिधन मारुता वायुना क्षिप्तः प्रेरितो लङ्कादिपुरचतुष्कोपरि प्रसिद्ध- . लङ्का-यमकोटि-सिद्धपुर-रोमकपत्तनोपरि निरक्षेदशोपरि भ्रमति इत्यर्थ:। तत्र निरक्षदेशेषु दिनरात्रिमाने समे सदा तुल्ये एव । अन्यत्र निरक्षदेशादन्यदेशेषु दिनरात्री न समे भवतोऽक्षप्रभोपचयात् पलमाया वृद्धे: ।। निरक्षेपलभाया अभावात दिनरात्री सदा समाने भवतः । अन्यत्र पलभायाः सत्वात सदा A. ܠ ܟ foi: । अत्रोपपत्तिः। ‘सदा समत्वं द्युनिशोर्निरक्षे’-इत्यादि बास्करीयगोलोत्तेन स्फुटा ॥ ४ ॥ ~ इदानीं ग्रहचारप्रवृतिमाह। अन्याशारूयास्तत्राक्षाशा लङ्कापुरे मदृत्तिदिने । कल्पयुगवर्षेमासाचैत्रसितादेरिनेोदयायुगपन् ॥ ५ ॥ अन्याशाख्या लङ्कात उत्तेरे याम्ये वा स्थिता ये देशाः सन्ति तत्राक्षांशाः सौम्यध्रुवतारोन्नतिर्भवति॥ लङ्कापुरे लङ्कायां प्रवृत्तिदिने कल्पारम्भकाले चैत्रसितादेधैत्रशुक्लप्रतिपदादेरनोदयात् सूर्योदयात् युगपदेक हेलया कल्पयुगवर्षमासाः प्रादुर्भुता इत्यर्थ:। 'लङ्कानर्गर्योमुदयाच भानोस्तसैव वारे प्रथमं बभूव' इत्यदिमास्करमतमेतदनुरूपमेवेति ॥ ६ ॥