पृष्ठम्:महासिद्धान्तः.djvu/285

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टबकाध्यायः । निरग्रके निःशेषे । ना गुणः शून्यं गुणः । एवमृणक्षेपे ऋणफलत्वात् न कर्म कर्तव्यम् ना-क्षेपे शून्यक्षेपे क्षेपाभवे । नै शून्यौ इत्यर्थः । शेषं स्पष्टम् । अत्रोपपत्तिः ।। *क्षेपाभावेोऽथवा यत्र क्षेपः शुद्धेद्धरोद्धृतः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ १९ ॥ इदानी पुनर्विशेषमाह । *, फलगुणकौ युक्तौ स्तः प्रक्षोक्ताभ्यामभीष्टगुणिताभ्याम् । भाज्यच्छिङ्ह्यां बहुधा सुदृढाभ्यांचेष्टगुणिताभ्याम् ॥२०॥ आभ्यां कथितेत्सिगोपवादकलनेाद्भवफलगुणाभ्याम्। प्रश्न बूयाद्वहृधा मतौतिदाभ्यामभीष्टविधिजाभ्याम् ॥२१॥ सुदृढविभाज्यच्छिद्यां फलगुणयोः स्याच यो युचरगणिते । अन्यविधिजयोर्वाऽऽभ्यामर्वे ख-विधिसम्भवेऽन्यथानैव॥२॥ प्रश्नोक्ताभ्यामुद्देिष्टाभ्यां भाज्यच्छिन्द्रयां भाज्यहाराभ्याम्। वेष्टगुणताभ्यां वा इष्टगुणिताम्यां दृढाभ्यांभाज्यहराभ्याम्। कथितेत्सर्गापवादकलनेोद्भवफलगुणाम्याम् । पूर्वप्रतिपादित उत्सर्गे दुष्टप्रश्नस्तस्यापवादे कलनया गणनया उद्रवावुत्पत्रौ येौ फलगुर्णौ लब्धिगुणौ ताम्याम् । फलगुणयोर्मध्ये द्युचरगणिते ग्रहगणिते यश्चापक्षितः स्यात् । किंभूतयोः फलुगुणयेरन्यविधिजयोः कुट्टकातिरिक्तविधित उत्पन्नयोः वा ख-विधिसंभवे पूर्वोत्तद्वितीयविधिसंभवे सति आभ्यां दृढ़भाज्यहाराभ्यामुत्पन्नयोः । शेषं स्पष्टम् ॥ २०-२२ ॥ इदानी प्रश्नविशेषे वििध सूचयति । राश्याद्यग्रे ख-विधिः कार्यस्तश्*त्राप्यसंभवे शेषः । । साग्राधिकमासादौ कञ्-विधिः ख-विधिस्तथान्यत्र ॥२३॥ । यत्र प्रश्ने ग्रहस्य राश्यादिशेषमुद्दिष्टं तत्र ख-विधिर्द्वतीयो विधिः * स्तदसम्भवे शेषः इति वि. पुस्तके पाठः ।। -