पृष्ठम्:महासिद्धान्तः.djvu/284

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतिलके महासिद्धान्ते च फलतः सर्वत्र समामव्यभिचारिणीं गुणेोत्पति चे वक्ष्ये कथयिष्येऽप्रेऽहमिति शेषः । अत्रोपपात्तिः । गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलम् । इति भास्करप्रकारोपपत्त्या । तत्र धनक्षेपे ऊर्धवैकुझे भाज्यभक्तः फलमधिकमधः कुट्टो हारभक्तः फलमल्पं तत्राल्पफलमेवोभयत्र ग्राह्यमत आचार्यण तत्र गुण एवगृहीतो हराल्पत्वात्। एवमृणक्षेपे लाब्धेरेवगृहीता भाज्याल्पत्वात् । गुणलब्धिभ्यां प्रश्नालापानुसारेण लब्धिगुणयेोर्मीने सुगमेन व्यत्के भवत इति सर्वै निरवद्यम् । एवं तदैव भवति यद् क्षेपसंख्या भाज्यहारघातादाधका अतो मत्सूत्रम् । क्षेपसंख्या यंदा भाज्यहारघाताधिका भोवेत्। गुणलब्ध्योः समं नैव तदा स्यात तक्षणे फलम् ॥ इति ॥११-१६॥ इदानी गुणाल्लब्धिमाह । गुणपृच्छाभाज्यवर्ध पृच्छाक्षेपेण संस्कृर्त विभजेत् । यश्नोत्तच्छेदेन स्पष्टं लब्धं फलं भवति ॥१७॥ । पृच्छाभाज्यः प्रश्नेोक्तो भाज्यः पृच्छाक्षेपः प्रश्नोत्कः क्षेपः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । अालापेनैव स्फुटा ॥१७॥ इदानी लब्धितोगुणमाह । मश्नच्छित्फलघात व्यस्ताख्य क्षेपकेण संस्कृत्य } प्रश्नोदितेन पृच्छाभाज्येन भजेद् गुणो भवेलुब्धम् ॥१८॥ पृच्छाभाज्येन भजेद्यल्लब्धं स गुणे भवेदिति । शेषं स्पष्टार्थम् । अत्रेोपपतिः । व्यस्तविधिना स्फुटा ॥ १८ ॥ V इदानी विशेषमाह । । स्वक्षेपे छेदहते निरग्रके ना गुणः फलं लब्धिः । एवसृणक्षेपे नो ना-क्षेपे फलगुणौ नौ स्तः ॥ १९ ॥