पृष्ठम्:महासिद्धान्तः.djvu/280

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कुट्टकाध्यायः ॥ –e>0<>-0<=- तत्रादौ वलीमानयति । भाज्यक्षेपच्छेदा यथोदिताः संस्थिताः क-विधिरेषः । ते च करण्या भक्ता दृढाभिधाना अयं ख-विधिः ॥ १ ॥ भाज्यक्षेपौ ग-विधिः क्षेषच्छेदौ यदा तदा घ-बिधिः । भाज्यक्षपी क्षेपच्छेदी ड-विधिविभिन्नकरणीभ्याम् ॥ २ ॥ ऐषां टाशेषं स्याद्भल्लीकरणेऽत्र तैः सिाद्धिः । नाशेषं चेदिह तत् कुट्टाकारं न पृच्छको वेत्ति ॥ ३ ॥ भाज्यहरावन्योन्यं विभजेत् टा-शेषर्क भवेद्यावत् । सा वछी तेन हतेऽन्त्येनोध्वें कान्विते स्फुटा वल्ली ॥ ४ ॥ विषमसमत्वं ज्ञात्वाऽनष्टोपान्त्येन ताडिते स्वाध्र्वे । स्वस्थानच्युतमन्ल्यं योज्यमनन प्रकारेण ॥ ५ ॥ पृच्छकेन यथोदिता भाज्यक्षेपच्छदे एकत्र क्रमण संस्थिताः कार्याः। एषः क-विधिः प्रथमविधिर्वेदितव्यः । ते भाज्यक्षेपहराः करण्या महत्तमापवर्त्तङ्केन भक्ता ब्ब्धाः दृढाभिधाना दृढसंज्ञास्ते पृथक् स्थाप्याः । अयं ख-विधिर्द्वितीयः प्रकारः स्यात् । यत्र भाज्यक्षेपैौ केनाप्यपवक्त्यै असौ ग-विधिस्तृतीयः प्रकारः । यत्र क्षेपच्छदैः केनाप्यपवत्त्यै असौ । घ-विधिश्चतुर्थ: प्रकारः । यत्र भाज्यक्षेपी क्षेपच्छदौ च विभिन्नकरणीभ्यां भिन्नाभ्यामपवर्त्तनाङ्काभ्यां भक्तौ असौ ङ-विधिः पञ्चमप्रकार इति । एषां भाज्यक्षेपहाराणां मध्ये वल्लीकरणे वक्ष्यमाणवलींसाधनविधौ यदा टा रूपं शेषं स्यात् तदैव तैर्भाज्यक्षेपहारैः सिद्धिः कुदृकासिद्धिः स्यात्। यदि न शून्यं शेषं स्यात् अर्थात् हारेण भाज्येो निः शेषो भवेत्। क्षेपश्च नैव शुद्धयेत् तदा पृच्छकः कुदृाकारं प्रभं न वेत्तीति वाच्यम् ।