पृष्ठम्:महासिद्धान्तः.djvu/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्श्रोत्तराध्यायः । २२३ योजनत्रातः कक्षाभूपृष्ठस्थनिरक्षदेशयोरन्तरे योजनसमूहः । अनुपातभवा ग्रहभगणाहगैष्णकल्पकुदिनतबैराशिकेनेोत्पन्नाः । अनुपातजातः स मध्यग्रहः स्वकक्षायां दूरनिकटत्वातूदृश्याऽन्यथा दृष्टे भवति नाहगैणेत्पन्नसम इति शेषं स्पष्टार्थम् ॥ ५७--६० ॥ इदानी देशान्तरसंस्कारकारणभाह । *रेखाकोंदयकालात् प्राक् प्राच्यां दृश्यते यतः सूर्य:। 'iरेखाकदयतोऽसौ तस्माद्दशान्तरफलमृणमुक्तम् ॥६१॥ रेखापश्चिमतोऽर्कः पश्चाददृश्यस्ततो धनं तत्र " एवं सर्वेखगानां देशान्तरसंस्कृतिः कार्या ॥ ६२ ॥ इति श्रीमदार्यभटकृते महासिद्धान्ते गोलाध्यायप्रश्नेत्तराधिकारः सप्तदशः ॥ १७ ॥ स्पष्टार्थम्। ‘आदैी प्रागुदयेऽपरत्र विषये पश्चाद्ध रेखोदयात् इत्यादिभास्करप्रकारोपपत्या वासना चातिसुगमा ॥ ६१-६२ ॥ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरजस्तिलकेोऽगमत् । बहुविचारविधी परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इतेि सुधाक्ररद्विवेदिकृते महार्यभटसिद्धान्ततिलके प्रश्नोत्तराधिकारः. सप्तदशः ॥ १७ ॥ . रेखाकीदल्पोऽसी इति वि. पुस्तके पाठ: । ' देशान्तरमुक्तवत् कार्यम् इति वि. पुस्तके पाठः । •