पृष्ठम्:महासिद्धान्तः.djvu/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RRO सतिलके महासिद्धान्ते इदानीमहर्गणानयनेऽधिमासशेषत्यागकारणमाह । चैत्रासितादेरिन्दोर्वेषादिर्भास्करस्य मेषादेः । प्र-घ्नोऽब्दौघो यद्यापि चैत्राद्यातैर्युतः कृतो मासैः ॥४४॥ सौरस्तथापि जातो मासौघो मध्यमार्कमासान्ते । यस्मादधिमासाप्त्यै भास्करमासव्रजच्छेदः ॥४५॥ रविमासान्तभवाः स्युस्ततोऽधिमासास्तदग्रदिवसाश्च । तैरधिमासाग्रभवैर्दिवसैहींनोऽर्कमासौघः ॥४६॥ दर्शान्ते स भवेदिनमासव्रातस्त्वयं युक्तः । अधिमासैः साग्रदिनैर्दशन्ते स्थाच्छशाङ्कमासगणः ॥४७॥ तस्मादृणधनसाम्यादधिमासाग्रे परित्यक्तम् । एतदभीष्टतिथौ वा ज्ञेखस्तत्रार्कवासराश्छेदः ॥४८॥ रव्यब्दान्ताधिकमासाग्रजदिनसंमितिः शुद्धिः । यस्मात् तस्मात् मधुसितपूर्वेषु भवेदृणं तिथिषु ॥४९॥ प्र-घ्नो द्वादशगुणः। अधिमासाप्त्यै अधिमासप्राप्त्यर्थम् । भास्करमासब्रजच्छेदः कल्पसैौरमाससमूहहरः। इनमसत्रातोगतसौरमाससमूहः। एतदेवाभीष्टतिथावभीष्टचान्द्रादनेषु सर्व कारणमधिमासशेषत्यागे ज्ञेयं तत्राधिमासानयने अर्कवासरच्छेदः कल्पसैरदिनहरो भवतीलेतावानक . विशेषः । सौरवर्षान्ते यदधिशेषं तज्जा दिनसंमितिरेव चैत्रसितादेरिन्द्वब्दान्ताद्रव्यब्दान्तपयैन्तं दिनसमूहः शुद्धिः । शेषं स्पष्टार्थेम् । अत्रोपपत्तिः । ‘दर्शावधिश्चान्द्रमसो हि मासः? इत्यादिभास्करप्रकारोपपत्या स्फुटा ॥ ४४-४९ ॥ As इदानीमवमशेषत्यागकारणमाह । तिथयश्चान्द्रा दिवसा रव्युदया मेदिनीदिवसाः । कल्पे बहवश्चान्द्रास्ततो लघीयान् कहाच्चान्द्रः ॥५०॥