पृष्ठम्:महासिद्धान्तः.djvu/275

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्श्रोत्तराध्यायः । २१९ विपरीतगणनया षडुारा गतास्तदेष्टाहगैणेन किं लब्धा रविवाराद्विपरीतगणनया गता वारा:=६अह, राववारा भीष्टवारसंख्ययोर्मध्ये च स्थिता संख्या=इवा-१ । अतः पूर्वीनीतेषु गतवरेषु इयं .संख्या युता जाताभीष्टवारती विपरीतगणनया गतवार:=६अह+(इवा-१)। एते सततष्टा अभीष्टवाराद्यस्तगणनया गतवारो भवतीति । 'रूषतुल्ये ऽहगैणे a&- क्रमेण शशिरावमध्ये चत्वारो वारास्तदाहगणन किं लब्धा वारा: =४इअ । ततः कक्षाक्रमेण रव्यग्राच्छनिपर्यन्तं वारत्रयं प्रक्षिप्तं जाताः कक्षाक्रमेण गतवाराः=४इष्म+३ ।।इत्युपपन्नं सर्वम् ॥३९-४०॥ इदानी चन्द्रमार्स रविमासं चाह । यावत्कालेन शशी प्रविशतेि सूर्य स शीतगोर्मासः । *राविराशिभेोगमात्रो मध्यममानेन मध्यमोऽर्कश्च ॥४१॥ यावता कालेन शशिरवियोगात् पुनः शशी सूर्यं प्रविशति मिलति स शीतगेोश्चन्द्रस्य मासः । ‘रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोमसः? इतेि भास्करोतिरपीदृशी । मध्यममानेन मध्यमगत्या राविराशिभोगमात्रो मध्यमेोऽर्कः मध्यमसैौरमासश्च । मध्यमगत्या यावता कालेन राविरेकरार्शि मुङ्क्ते स सौरो मासः इति सर्वस्फुटमेव ज्योतिर्विदाम्॥४१॥ इदानी विशेषमाह । रविशशिमासावियोगेऽधिकमासाः स्युर्विधोर्मसाः । सौरेभ्यो बहवोऽतः सौरान्मासाल्लघुश्चान्द्रः ॥४२॥ तस्माद्दर्शविरामादुपरिष्टाद्येन कालेन । ' मध्योऽर्कसंक्रमः स्यात् सोधिकमासाग्रजः कालः ॥४३॥ स्पष्टार्थम्।' सौरान्मासादैन्दवः स्याल्लघीयान्? इत्यादिना ‘दर्शावधिश्चान्द्रमसो हि मासः ? इत्यादिना च भास्करोत्तेन वासना च स्फुटा ग्रन्थगौरवेणालम् ।४२-४३॥

  • रविशशिभभोगमात्रः इति वि० पुस्तके पाठ: ।