पृष्ठम्:महासिद्धान्तः.djvu/243

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्नोत्तरम। 49 इदानी पातालवासेिनः सौम्यदिर्श चाह । पातालेषु च दैत्या दनुजाः केचिइसन्ति नागाश्च । जम्बूद्वीपान्तःस्थेो मेरुः सौम्येऽखिलपुरेभ्यः ॥१३॥ जम्बूद्वीपान्तःस्थो जम्बूद्वीपमध्यगतः । तेभ्यः अखिलपुरेभ्यः सौम्ये उत्तरदिशि मेरुरव । 'उदक्स्थितो मेरुरिति प्रसिद्धम्' इत्यादि भास्करोत्तमेतदनुरूपमेव । शेषं स्पष्टम् ॥ १३ ॥ इदानी पुरव्यवस्थामाह । लङ्काया यमकोटिः प्राकं पश्चाद्रोमकं तलस्थं च । सिद्धपुरं भगणोऽयं भ्रमति पुराणां सदा शिरासि ॥१४॥ अयं भगणो भचक्र पूर्वोदितानांपुराणां शिरसेि सदा भ्रमति । नाडीमण्डलमेव भचक्रमध्यस्थ सदा निरक्षवासिमस्तकेषु भ्रमंतीत्यर्थः । धयः 'भ्रमन्द्रचक्र निजमस्तकोपरि इत्यादिभास्करोत्तमेतदनुरूपम् ॥ १४ । इदानी कुलाचलव्यवस्थामाह । लङ्कातस्तुहिनाद्रिः सौम्यस्तस्माच्च हेमकूटाख्यः । तस्मान्निषधोऽथैते दीर्घाः पूर्वापराब्धिपर्यन्ताः ॥१९॥ तुहिनाद्रिर्हिमालयः । पूर्वीपराब्धिपर्यन्ताः पूर्वपश्चिमसमुद्राव। शेषं स्पष्टम् ॥ १९ ॥ \ इदानीं वर्षाण्याह। सागराहमगिरिमध्ये चापाकारं हि भारतै वर्षम् । हिमहेमकूटगियोंर्मिध्ये किंपुरुषकं खण्डधूं॥१६॥ निषधाद्रोिहेमकूटाचलयोर्मध्ये स्थिर्त च हरिवर्षम् । शृङ्गव्यद्रिसिद्धपुरयोः कुरुखण्डं चापवन्मध्ये ॥१७॥ । शृङ्गश्चेताचलयोर्येदन्तरं तद्धिरण्मण्यं वर्षम् । । घेताद्रिनीलगियोंर्मिध्ये रम्याहयं वर्षम् ॥१८॥ । तेऽप्पञ्चलाः पूर्वापरजलराश्यन्तास्तु विज्ञेयाः ॥