पृष्ठम्:महासिद्धान्तः.djvu/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते । । अम्बरसंस्थितभूमेराकाशस्थितपृथिव्याः । उत्पार्श्वः कुक्षिस्थानम् । किंभूताया भूमः कल्पनावधेः कल्पनाया अवधिर्या तस्याः । शेषं स्पष्टार्थम्। ‘समे समन्तात् क पतत्वियं खे? इत्यादिभास्करोत्कमेतदनुरूपमेव ॥ ८ ॥ - इदानी पुरादिसँस्थितिमाह । लङ्कादिपुरचतुष्कं क्षारोदधिमध्यसंस्थितं ज्ञेयम् । क्षाराब्धरुत्तरते! जम्बूद्वीपं क्षितरर्धम् ॥ ९ ॥ याम्येऽर्धेऽन्यद्वीपाम्बुधयो*ऽन्ल्याब्धौ हुताशनो वसति । लङ्कादिपुरचतुष्कं लङ्का-यमकोटि-सिद्धपुर-रेमिकपुरसंज्ञम् । क्षारोदाधेमध्यसंस्थितं क्षारसमुद्रमध्यवर्त्तीति । क्षितेरर्धं भूमेः खण्डम् ॥ अन्त्याब्धी मुजलसमुद्रे । हुताशनो वडवाभिः । शर्ष स्पष्टम ॥ ९ ॥ इदानों द्वीपान्याह । दुग्धक्षारोदध्योः शाकद्वीपं यदन्तरे “तस्य ॥१०॥ · दधिदुग्धोदधिमध्ये कुशं दाधिस्नेहयोस्तथा क्रौञ्चम् । इक्षुरसस्नेहजयेर्मध्ये स्याच्छाल्मलीद्वीपम् ॥११॥ । इक्षुरसमद्यमध्ये गोमेदं पुष्करं tसुरोदध्योः ॥ · तदुदकमध्ये वह्निर्दैत्यास्तर्त्तीरोमरुमूलस्थाः ॥१२॥ दुग्धक्षारसमुद्रयोरन्तरे यत् तस्य नाम शाकद्वीपम्। कुशंकुशद्वीपम् । दधिस्नेहयोर्दधिघृतसमुद्रयोः। सुरोदध्योर्मद्यस्वादूदकसमुद्रयोः । तदुदकमध्ये सुजलजलधिमध्ये । तत्तीरोमेरुमूलस्थास्तस्य स्वादूदकस्य तोटे यो मेरुस्तस्य मूलस्थाः ' शेषं स्पष्टम् । भास्करभुवनकेशेऽप्येतद्नुरूपम् l १०-१2 ।।

  • ऽन्त्येऽब्धौ इति वि. पुस्तके पाठः ।। ** तत् स्थात् इति वि. पुस्तक पाठ: ॥

í सुरोदकयोः इति वि. पुस्तके पाठ: ॥