पृष्ठम्:महासिद्धान्तः.djvu/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्रोत्तरम । . , केचिलोका अनिलाधारा वाय्वाधाराः । केचिद्वसुन्धराधारा भूम्याधाराः । वसुधा पृथ्वी च नान्याधारा स्वशक्त्यैव गगने आकाशे तिष्ठति * मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ? इति तथैव सूर्यसिद्धान्तोत्तिश्च । अत एवायं सिद्धान्तो वस्तुतो न वृद्धार्येभटमतानुयायी यतो वृद्धार्यभटमते पृथिवी ख"क्षोपरि भ्रमतीति ॥ ४ ॥ इदानी भूगोलस्वरूपमाह । कन्दुकरूपा धात्री सर्वत्राम्भोधिपर्वतद्वीपैः । व्याप्तं कन्दुकपृष्ठं पुटानि पाताललोकाः स्युः ॥ ९ ॥ धात्री पृथ्वी । कन्दुकपृष्ठं भूमेः कन्दुकवत् पृष्ठम् । पाताललोकाश्च पृथिव्याः पुटानि स्युः सन्तीति ॥ ९ ॥ । इदानीं मेर्वदिसंस्थितिमाह । । ओणीं भित्वा मेरुर्निर्गत उभयत्र तन्मूले । निवसन्त्यसुरा दनुजाः शिरोविभागे सदा देवाः ॥ ६ ॥ मन्यन्तेऽन्योन्यं ते ह्यधःशिरस्कान् पुरःस्थितांस्तर्यक् । सुखग कन्दुकट्टे चरन्ति सर्वे यथाऽत्र वयम् ॥ ७ ॥ क्षेणी पृथ्वीम्। तन्मूले तस्य मेशेरधेोभागे । शिरोविभागे मेरुशिखरे । ते देवा असृग्रदनुजाश्चान्येन्यं मिथोऽधःशिरस्कान् मन्यन्ते । पुरःस्थितान् स्वपृष्ठस्थानादंभूचतुर्थाशान्तरे स्थितान् तियैग् मन्यन्ते । कन्दुकपृष्ठ कन्दुकपृष्ठक्दूगोलपृष्ठे । सुखगे शेोभनाकाशगते । शर्ष । स्पष्टम् || ६-७ ।। یر इदानी विशषमाह । अम्बरसंस्थितभूमेः कोऽधोभागः कश्*उध्र्व उत्पार्श्वः । सा कल्पनावधेः स्यालङ्का गोलोपरिस्थितोक्ताऽतः ॥ ८ ॥ * क् िवाप्यृध्र्वः इति वि- पुस्तके ሣffö፭ ! ՀՀ p: