पृष्ठम्:महासिद्धान्तः.djvu/244

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*<< सतिलके महासिद्धान्ते किंपुरुर्ष किन्नरम्। शेर्ष स्पष्टम् । भास्करभुवनकोशतः प्रसिद्धं च ॥ १६-१८ ॥ इदानी निषधादीना स्थितिमाह । मेरोर्याम्यो निषधः सौम्यो नीलस्तदन्तरं तुल्यम् ॥१९॥ माग माल्यवान् सुराद्वेदीघों नीलाद्रिनिषधपर्यन्तः । तद्वत् पश्चाद्भन्धाचलस्तयोरन्तरं तुल्यम् ॥२०॥ सुराद्रेर्मेरोः । गन्धाचलः सुगन्धपर्वतः । शेषं स्पष्टम् ॥१९-२०॥ इदानी वर्षेषु विशेषमाह । यमकोटेभैद्रार्श्वे माल्यवदवसानकं वर्षम् । रोमकगन्धाचलयोर्यदन्तरं *केतुपालाख्यम् ||२१॥ मेरुतले चतुरस्र तादलावृतसंज्ञक ज्ञेयम् । भद्राश्वकेतुमाले ‘ज्ञये चतुरस्रके खण्डे ॥२२॥ इतराणि तु वर्षाणि क्षेत्रफलैस्तुल्यरूपाणि ॥ यमकेोटयैमकोटेः सकाशात् । माल्यवदवसानकं माल्यवत्पर्यन्तम् । चतुरस्त्रं चतुर्भुजाकारम् । भद्राश्वकेतुमाले द्वे अपि खण्डे चतुरस्त्रके चतुर्भुजाकारे। इतरााण अन्यानि । शेष स्पष्टम् ॥ २१-२२ ॥ इदानी भारतवर्ष गिरिसंस्थान्माह । माहेन्द्रपारियात्रर्क्षमलयाविन्ध्याः सशुक्तिसह्याश्च ॥२३॥ भारतवर्ष गिरयो मैनाकथाष्टमोऽम्भोधौ। ऐन्द्रादिकानि खण्डान्यन्यान्यपि सन्ति भारत वर्षे ॥२४॥

  • माहन्द्रशुक्तिमलयक्षकपरियात्राः ? इत्यादिभास्करोक्तमेत- • दनुरूपमव । अप्टमो मैनाको गिरिरम्भोधौ समुद्रमध्ये वसति । शर्ष स्पष्टम् ॥ २३-२४ ॥ *केतुमालं तत् इति वि. पुस्तके पाठः। ईषचतुरस्रके खण्डे इति वि. पुस्तके पाठ:।