पृष्ठम्:महासिद्धान्तः.djvu/237

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटीगणितम्र । §උදී शालाम्रसरेलेषु सार्ध शतद्वयं छेदो हर: स्यात्। तत्र सार्धशतद्वयवर्गङ्गुलैरेके वर्गहस्तो ज्ञेयः । हरवर्धने काष्ठानांहरणे छदे यद्ववर्धनमधिकद्रव्यदानं तस्मिन् । शेषं स्पष्टार्थम् । । अत्रोपपतिः । 'पिण्डयोगदलमग्रमूलयोः' इत्यादिभास्करप्रकारोपपत्या स्फुट ॥ ११२-१४ ॥ इति क्रकचव्यवहारः । अथ राशेिव्यवहारः । तत्रादौ धान्यघनहस्तज्ञानार्थ सूत्रं वृत्तद्वयम् । समभूमिस्थितराशेः परिधिषडंशस्य वर्गेण । गुणितोऽभ्युदयो गाणितं घनहस्तानां च ताः खार्यः॥११५॥ मागध्येोऽन्यत्रास्मादनुपातात् कल्पयेद्रणितम् । ग*क्तक्षेत्रफलप्नोत्सेधो गणितं तथा कोष्ठे ॥११६॥ अभ्युदय उच्छ्रुितिर्वा वेधः । गर्ताक्षेत्रफलप्नोत्सेधः खाताधारक्षेत्रफलेन गुणित उत्सेध उच्छुितिः । कोठे धान्यस्थापनार्थ पात्रविशेषे देशभाषायां 'कोठिला' इति पदवाच्ये। शेष स्पष्टम्। अत्रोपपात्तिः ।। * अनणुषु दशमांशोऽणुष्वथैकादशांशः ? इत्यादिभास्करप्रकारोपपत्त्या स्फुटा । मन्मुद्रितत्रिशतिकायाः ४३ पृष्ठं विलोक्यम् ॥ ११५-११६ ॥ इदानीं भितिलमधान्यघनफलज्ञानार्थ करणसूत्र वृतम्। भेित्त्याश्रेतस्य राशेरुछायः परिधिताडितो गणितम् । बाह्याभ्यन्तरकोणाश्रयेण चरितस्य वा भवति ॥११७॥ इति राशेः ।

  • गोन्ना इतपाठः साधुः ।