पृष्ठम्:महासिद्धान्तः.djvu/234

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 सतिलके महासिद्धान्ते अथ खातव्यवहारः । तत्रादौ खातघनफलज्ञानार्थ करणसूत्र वृत्तम । क्षेत्रफल समवेधे वेधहत जायते गणितम्। । तन्मध्यस्थानामपि तद्वत् तद्योगतः फलं *वाप्याः ॥१०४॥ , समवेधे सर्वत्र तुल्यगाम्भीर्य क्षेत्रफल बेधहतं तदा गणित घनफलं स्यात् । तन्मध्यस्थानां तस्या वाप्या मध्ये यानि समवेधानि खातानि स्थिताने तेषां तद्वदधुनेत्तेन प्रकारेण घनफलाने साध्यानि । तुंद्योगतस्तेषां घनफलानां योगाद्वाप्याः फल घनफलं भवतीति प्रसेिद्धम् ॥ १० ४ ॥ - - इदानों विषमवधखाते करणसूत्र वृतम् । बहुव१धानां मिल्या चैक करण युर्त विभजेत् । लब्धेन क्षेत्रफलं हन्याद्गणितं त्रिभाजितं सूच्याः ॥१०९॥ बहुवेधानामनेकापलब्धवेधानामेककरणे साधनमभीष्टं तदा युर्त तेषां वेधानां योगं मित्या उपलब्धवधानां स्थानकामेत्या विभजेत् । लब्वेन क्षत्रफल हन्यादगुणयेद गणिर्त घनफल भवेत्। तदेव खातघनफलं त्रिभानितं तदा सूच्या घनफलं भवेत्। 'गणयत्वा विस्तारं बहुषु स्थानेषु इत्यादिभास्करोत्तमेतदनुरूपमेव ॥१०९॥ इदानी विशेषमाह । । मुखतलतद्युतिजानां क्षेत्रफलानां युतिं भजेत् षड्भः । | लब्धं वेधेन इतं खातफलं कूपवाप्योः स्यात् ।।१०६॥ स्पष्टम् । ' मुखजतलजतद्युतिजक्षत्रफलैक्यम् ।' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ १०६ ॥

  • वाच्यम् इति वि. पुस्तके प्रथमः पाठः ।। 'बहुवधानां युल्या वेधं करणं युतिं विभजेत् इति सर्वपुस्तकेषु प्रामादिकः पाठः ।।