पृष्ठम्:महासिद्धान्तः.djvu/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० सतिलवैी महासिद्धान्ते अन्लेन हर्त मध्य विभाजयेदादिमेन भवति फलम्। विपरीतचैराशिकमाद्ये मध्याहतेऽन्त्यहते ॥२५॥ आद्यः प्रथमः । मानं प्रमाणसंज्ञम् । मध्यो राशिर्विनिमयसंज्ञः प्रमाणफलसंज्ञः । शेषं स्पष्टम् । ‘प्रमाणमिच्छा च समानजाती' इत्यादिभास्करोत्तमेतदनुरूपम् ॥२४-२५॥ इदानीं पञ्चसप्तराशिकादौ करणसूत्रं वृत्तद्वयम् । फलनयनमितरपक्षे कृत्वा कुर्यात् स्वपक्षराशिबधम्। विभजेद्धहुरार्शानां बधमल्पकराशिघातेन ॥२६॥ । फलहरपरपक्षगर्म कृत्वा सर्वाधरं गुणयेत्। छेदैश्चांशैरथवा विभजेद्धहुराशिघातमितरेण ॥२७॥ इतरपक्षेऽन्यस्मिन् पक्षे फलनयन फलस्य वा फलयोर्नयर्न कृत्वा स्वराशिबधं स्वराशीनां स्वस्वपक्षस्थितानां राशीनां बधं कुर्यात् । ततोऽरुपकराशिघातेन बहुराशीनां बर्धे विमजेत् । सर्वाधरं सर्वराशीनामधःस्थम्। फलस्य फलयोवी हराणां च परपक्षगर्म परपक्षनयन कृत्वा छेदैर्हरैरथवाऽशैश्च गुणयेत् ॥ तत इतरेणेतरपक्षराशिघातेन बहुराशिघार्त विभजेद्रणक इतिशेषः । 'पश्वसनवराशिकादिके? इत्यादिभास्करोक्कमेतदनुरूपमेव ॥२६-२७॥ इदानीं भाण्डप्रतिभाण्डके करणसूत्र वृत्ताधैम्। मौल्ये*ऽन्यत्रानीते भाण्डप्रतिभाण्डकेऽन्यदुक्तसमम् । अन्यत्रानीतेऽन्योन्यपक्षयोमैंल्येि चानीते नयने । उतसर्म पूर्वोक्तसमम् । शेर्षे स्पष्टम् । ‘तथैव भाण्डप्रतिभाण्डके विधिः' इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ इदानीमन्यत्सूत्रं सार्धवृत्तम् । विक्रयगुणिते लाभे क्रयविक्रयविवरभाजिते मूलम् ॥२८॥ । ४ मूल्येऽन्योन्यं नीते इति वि पुस्तके पाठ ।