पृष्ठम्:महासिद्धान्तः.djvu/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पार्टीगणितम् । १४९ व्र्यशानां लवीनानां हराणां गुणनर्मशो मवति । अविकृतानां यथास्थितानां हराणां ताडनं बघेो हारो भवति । प्रभे यद् दृश्यं तत्संभक्तं तेन हारभक्तेनांशेन हृतं लब्धं शेषजातौ घनं राशिर्भवति । योगे येोगजातीच अंशैक्यं हराणां लवयुतहराणां बघेोऽशेो भवति हरश्ध । शेषजातिवत् । दृश्यं तद्भाजितं तेन छिदघातभक्तेन लवयुतहरबधलवेन محم भाजित राशिर्भवति । 'छिद्धातमकेन लवोनहारघातन इत्यादिभास्करलीलावत्यां क्षेपकचैतद्नुरूप एव । भास्करेष्टकर्मविधिनाऽत्रोपपक्तिश्च स्फुटा ॥२०॥ इदानीं संक्रमणे करणसूत्रं सार्धवृत्तम् । । योगेऽन्तरयुक्तोने दलिते संक्रमणराशी स्तः ॥ २१॥ राश्यन्तरेण विभजेद्वर्गवियोग फल योगः । ताभ्यां संक्रमविधिना राशी स्तो विषमजातीय ॥१२॥ विषमजातीयावतुल्यैौ राशी ॥ शेषं स्पष्टम् । ‘योगोऽन्तरेणोनयुतः? इत्यादि ‘वर्गान्तरं राशिवियोगभक्तम्? इत्यादि च भास्करोत्तमेतदनुरूपम् ॥२१-२२॥ इदानी विलेमकर्मह । स्वमृणमृणं स्वं• मूलं वर्गं वर्ग पदं कुर्यात् । गुणकं इारं हारं गुणकं च विलोमसञ्ज्ञविधौ ॥२३॥ स्पष्टार्थम् । भास्करविलेीमकर्म ‘छेदं गुणं गुणं छेदम्? ३त्यादि एतदनुरूपमेव ॥२३॥ - इदानीं वैराशिकमाह। अाद्यो राशिर्मानं विनिमयसंज्ञो भवेन्मध्यः । इच्छासंज्ञोऽन्त्यः स्यादाद्यान्तावेकजातीय ॥२४॥

  • वर्ग मूर्ल मूलं कृति कुर्यात् इति वि पुस्तके पाठ: ।