पृष्ठम्:महासिद्धान्तः.djvu/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፪ነ፥o सतेिलके महासिद्धान्तै कक्षावृत्तांत भूमिकक्षावृतातू भूगोलादित्यर्षः । तान् तान योजनमितान् ॥ शेषं स्पष्टम् ॥९९॥ इदानी त्पष्टग्रहसेवन्धिनः प्रश्नानाह । दिनगणभगणाः स्पष्टा यदि तज्जाता प्रहाः स्फुटा न कुतः । देशान्तरं च तेषां व्योमचराणां कुतः क्रियते ॥९६॥ दिनगणभगणाः । दिनगणेो ग्रहाणां भगणाश्च यदि स्पष्टाः समीचीनाः । तज्जाता दिनगणेन पाठपठितभगणैश्चेद्भवाः । शेषं स्पष्टम् ॥९६॥ इदानी चरप्रश्नै भुजान्तरप्रश्र्न चाह । किमु चरसंज्ञं तज्जे स्वमृणं कस्माद्भहेषु फलम् । भानुफलं खचरेषु स्वमृणं रविवत् कुतः क्रियते ॥५७॥ इति श्रीमहार्यभटकृते महासिद्धान्ते गोलाध्याये प्रक्षाधिकारश्चतुर्दशः ॥१४॥ भानुफर्ल सूर्वमन्दफलकलोद्रवं फलम्। शेर्ष स्पष्टार्थम्॥१७॥ इंतेि महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमत् । । खगविचार विधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इति सुधाकरद्विवेदिकृते महासिद्धान्ततिलके गोलाध्याये प्रश्नाधिकारश्चतुर्दशः ॥१४॥ tra-i-Sun-mo