पृष्ठम्:महासिद्धान्तः.djvu/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पाटीगणितम् । तत्रादावारम्भे कारणमाह । गणिते व्यवहारे नो पार्टीज्ञानादृतऽधिकारी स्यात्। यस्मात् तस्माद्वक्ष्ये सुगमां पार्टीं प्रसिद्धसञ्ज्ञाभिः ॥ १ ॥ गणिते गणितकर्मण। व्यवहारे वाणिज्यादिकर्मणि । पाटीं व्यक्तगाणितरीतिम् । शेषं स्पष्टार्थम् ॥ १ ॥ इदानी सङ्कलेतव्यवकलितयोर्लक्षणमाह। संख्यावतां बहूनामेकीकरणं तदेव सङ्कलितम् । . यदपास्ते सर्वधनात् तद्वद्यवकलितं तु शेषकं शेषम् ॥ २ ॥ बहूनां संख्यावतां संख्यात्मकपदार्थानामेकीकरण सपिण्डन ( सम्मेलनं ) तदेव सङ्कलितम् । सर्वधनाद्यत् किमपि अपास्तं शोधितं तदेव व्यवकालतं कथ्यते । शोधनेन यच्छेषकमवशिष्टं तदेव · शेषं च कथ्यते इति । एवमत्र सङ्कलितव्यवकलितयोर्लेक्षणमेव प्रतिपादितं । तदानयनविधिश्च प्रसिद्धत्वान्न प्रदर्शित अचार्येणेति ॥ २ ॥ इदानीं गुणने करणसूत्र वृतम्। गुण्यान्त्यस्थानोपरि गुणकाचं स्थापयेत् ततो गुणयेत् । गुणकस्थानैरखिलैगुण्यस्थानानि सर्वाणि ॥ ३ ॥ गुण्यस्यान्तस्थानाङ्केपरि गुणकस्यायमङ्क स्थापयेत् ततो गुण येच गणक इतिशेषः । कथं गुणयेदित्याशङ्कूयाह, अखिलैः सॅवेंगुंणक स्थानाङ्गै सर्वाण गुण्यस्थानाङ्कमानाने गणको गुणयेदिति । 'गुण्या। न्तमङ्कं गुणकेन हन्यात्' इत्यादि भास्करोत्तमेतदनुरूपमेव । ‘विन्य fr e Fa ु स्याधो गुण्यम्’ इत्यादि श्रीधराचायैसूत्रमपि तथैव ॥ ३ ॥