पृष्ठम्:महासिद्धान्तः.djvu/187

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः । 3. वापीसमखातानां विषमाणां वा वदाशु गणित किम् । कूपानां च घनाख्यं पाषाणफळं त्वनेकदृषदां च ॥ ८ ॥ संख्या चितीष्टकानां मित्युच्छुायस्तरूणां च । कर्मकराणां देयं वद यदि गणितं विजानासि ॥ ९ ॥ मागैर्वित्रिचतुर्भिर्भदो दीर्घः फल ब्रूहि। खदिराम्रसरळजम्बूशाल्मलिकार्बाजकादीनाम् ॥१०॥ समभूभित्त्याद्याश्रयगतस्य राशेश्व खारिकामानम् । द्युगतं नरभाज्ञानादद्युगताद् भां वा वदाशु गणितज्ञ ॥११॥ इति पाटीगणितप्रश्नाः । यस्मादुपपत्त्या यज्ज्ञातं भवति तदेव सत्यम् । अत उपपत्तिमूलं गेोलं गोलाध्यार्य पाटीं व्यक्तगाणितं कुट्टं कुदृकगणितमिति यत् सर्वे प्रश्नोत्तरैः सहितं तदृक्ष्ये ॥ १ ॥ अथादौ प्रभानाह । सङ्कलितमित्यादि । तु पृनरनयोर्वर्गघनयोमूले । इति सर्व भिन्नाङ्कानामभिन्नाङ्कानां च हे सखे शीर्घ कथय ॥ २ ॥ रूपाम्राणां रूपशेषाणां तथाऽशाप्रकाणां रूपातिरिक्तांशशेषाणां सवर्णनं वद । सदृशच्छेदविधानं समच्छेदविधिम् । प्रभागवल्लीसवर्णनं प्रभागजातौ सवर्णनम् ॥ ३ ॥ भागभागकविधिं भागानुबन्धविधिम् । नानाजात्यूद्भवानि भागापवाहाद्युत्पन्नानि फलाने वद। अनुपानान् त्रैराशिकपश्चराशिकादीन । वितैौघानां धनसमूहानां मिश्राणां पृथक्करणं वद ॥ ४ ॥। काञ्चनवर्णोत्पर्तिं सुवर्णवर्णोत्पत्तिम् । रससंयोगोद्भवान् एकद्यादियोगेनोत्पन्नान्। वक्रादीनां मुखचयगच्छानाम ॥ ६ ॥ कोट्यादिद्वययोगे भुजकौटियोगे भुज१र्णयोग कोटिकर्णयोगे च दृष्ट । विवंर भुनकोट्योरन्तेरे भुनकर्णयोरन्तेरे कोटिकर्णयोश्चन्तेर हटे । ६ ॥ मर्दल मृदङ्गाकारं क्षेत्रम् । कोदण्डं चापक्षेत्रम् ॥ ७ ॥ गणितं घनफलम् । अनेकदृषदां नानाविधानां मृदुकठिनानां पाषाणानाम् ॥८॥कर्मकराणां तद्रचनाकर्तृणाम्॥९॥खदिराद्यो वृक्षविशेषाः॥१०॥