पृष्ठम्:महासिद्धान्तः.djvu/186

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीजानकीबद्धभो विजयते । अथ महासिद्धान्तस्य । गोलाध्यायः ॥ --in-en-Hino सुधाकरट्टिवेदिकृतातिलकसहितः । तत्रादौ पाट्टीप्रभानाह । उपपत्त्पा यज्ज्ञातं सत्यं यस्मादतो बक्ष्ये । गोलं* पाटीं कुट्टं यत् तत् प्रभोत्तरैः सहितम्।]] R - सङ्कलितं व्यञ्चकलितं गुणनं भागं कृर्तिं घनं त्वनयोः । मूले भिन्नाभिन्नाङ्कानां शीघ्रं सखे कथय ॥ २ ॥ विद्वन् सवर्णनं वद रूपाग्राणां तथांशकाग्राणाम् । -- सदृशच्छेदविघाने प्रभागवल्योः सवर्णने च+कथय ॥ ३ ॥ बद भागभागकविधि नानाजात्युद्भवानि च फलान । अनुपातान्मिश्राणां वित्तौघानां पृथक्करणम् ॥ ४ ॥ काञ्चनवर्णोत्पत्ति रससंयोगोद्भवान् विभेदांश्च । श्रदीगणितं वक्त्क्रादीनां ज्ञानं गुणोत्तरं चैव ।। ९ ॥ भुजकोट्योर्वद कर्ण कर्णात् कोर्टि भुज यद्वा। कोट्यादिद्वययोगे विवरे दृष्ट्रेऽथवा पृथक् माने ॥ ६ ॥ त्रिभुजचतुरुंजवर्तुलमर्दलकोदण्डकमलरूपाणाम् । क्षेत्राणां बद गणितं लम्बं लम्बात् श्रुर्तिं श्रुतेर्लम्बम् ॥ ७ ॥

  • पाटीकुट्टकयन्त्रप्रश्नोत्तरैं: इति वि. पु६ के पाठ उत्तमः । + कथम् इति वी. पुस्तके पाठ: ।