पृष्ठम्:महासिद्धान्तः.djvu/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 सातलकं महासिद्धान्ते ऊने ।। *कलम्बमार्गणशराः? इत्यमरः । तन्मूलाभ्यां तिथिवत् तिथिसाधनवत् कर्म कर्त्तव्यम् । तन्मूले षष्टिगुणे रावचन्द्रगत्यन्तरभत्के तदा क्रमेण स्थित्यर्धविमर्दोर्धे भवतः ।। / अत्रोपपातेः । 'आह्मग्राहकसंयोगवियोगौ' इत्यादिसूर्यसेिद्धान्तविधिना स्फुटा । विशेषार्थ सुधावर्षिणी विलेोक्या ॥ ८ ॥ इदानी स्पर्शादिकालमाह । तिथ्यन्ते स्थित्यूने स्पर्शः सम्मीलनं च मदने । उन्मीलनं समर्दे स्थित्या सहिते विमोक्षः स्यात् ॥ ९ ॥ " तिथ्यन्ते पूर्णान्तकाले । स्थित्यूने स्थित्यधेरहिते । मर्दोने मर्दार्धराहते । समोर्दै मर्दार्धसहिते । स्थित्या स्थित्यर्धमानेन । शर्ष स्पष्टार्थम्। अत्रोपपात्तिः। ‘स्फुटतिथ्यवसाने तु' इत्यॆादि सूर्यसिद्धान्तविधिनां स्फुट । विशेषार्थ सुधावर्षिणी विलोक्या ॥ ९ ॥ इदानी विशेषमाह । स्पर्शविमोक्षसमयजेन्दुशरौ तत्संज्ञकौ तदुत्पन्ने । स्थित्यर्धे चासकृदभिमतमर्दभवाश्च कोटिसंज्ञाः स्युः॥१०॥ स्पर्शे मेोक्षसमये च जायमानैौ चन्द्रशरौ तत्संज्ञकौ स्पार्शकमौक्षिकशराख्यौ स्तः । ताम्यां स्पार्शिकमैक्षिकशराभ्यामसकृत्कर्मणा स्पार्शकमौक्षिके स्थित्यर्धेभवतः । एवमभीष्टे समये मर्दार्धयोः सम्मीलनोन्मीलनकालयोश्च भवाश्चन्द्रशरास्तात्कालेकभूभाचन्द्रयोः पूर्वापरान्तरज्ञानार्थे कोटिसंज्ञाः स्युरिति । अत्रेोपपत्तिः । असकृत्कर्मेणैव स्थित्यर्धोदि स्फुटं भवतीत्यतदर्थं 'स्थित्यर्धनाडेकाभ्यस्ताः” इत्यादिसूर्यसिद्धान्तप्रकारे सुधावर्षिणी विलोक्या ॥ १० ॥ -