पृष्ठम्:महासिद्धान्तः.djvu/125

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः । ६९ अत्रोपपत्तिः । द्वयोर्गोलयोरादै विषुवद्वृत्ताख्येऽहोरात्रवृत्ते रविर्धमति तत्र मध्यहे इादशडुलशडूच्छाया विषुवच्छाया पलभा वा कथ्यते । एवं गोलादिद्वये वेधेनाऽऽचार्येण द्रे विषुवच्छाये आनीते ते च प्रायो मध्याहसमये विषुवार्दी रविसरूचाराभावान्न मिथस्तुल्ये अते मध्यममानेन तद्योगार्धसमा विषुवच्छाया गृहीता । शेषवासना स्फुटा । विशेषार्थ सुधावर्षिणी द्रष्टव्या ॥ ३ ॥ इदानीमक्षक्षेत्राण्याह । दोर्भा शङ्कुः केोटिर्विषुवत्कर्णो भवेत् कर्णः ॥ ४ ॥ अक्षज्या वा बाहुः कोटिर्लम्बज्यका श्रुतिर्गज्या । कुज्या बाहुः कोटिः क्रान्तिज्याऽग्रा च कर्णः स्यात् ॥५॥ अग्राद्यखण्डकोटेरुन्मण्डलना भुजः श्रवोऽपमजा ।। अग्राग्रं दोरुन्मण्डलना कोटिः श्रुतिः कुञ्ज्या ॥ ६ ॥ समना कोटिः कर्णस्तद्धृतिरग्रा भुजो भुजोऽपमजा । तद्धृत्युत्तरखण्डं कोटिः कर्णो भवेत् समना ॥ ७ ॥ भा पलभा दभुजो भवति। गज्या त्रिज्या। अग्राद्यखण्डकोटेरग्राद्यखण्डकोटावुन्मण्डलना उन्मण्डलशङ्कः । अपमजा क्रान्तेर्जाता जीवा क्रान्तिज्येत्यर्थः। श्रवः श्रवणः कणै इत्यर्थः। समना समशङ्कुः। तद्धृत्युत्तरखण्डं कुज्येोनतद्धृतिः । अत्रेोपपत्यर्थ भास्करोत्ताक्षक्षेत्राणितद्रणिताध्यायेद्रप्टव्यानि ॥४-७॥ इदानीमक्षलम्बानयनमाह । कोटिभुजधे गज्ये श्रुतिभत्ते लम्बकाक्षजीवे स्तः। क्रमशस्तश्चापांशा लम्बपलाख्या उदग्याम्याः ॥ ८ ॥ गज्ये त्रिज्ये। क्रमेण कोटि-भुनने कर्णभते च तदा क्रमशी **ाक्षजीवे स्तः ।। ' तच्चापांशश्च उदग्याम्या लम्बपलांशाः स्युः ॥ लेबशिाः सौम्या अक्षांशा दक्षिणा बोध्याः । t