पृष्ठम्:महासिद्धान्तः.djvu/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रिप्रश्नाधिकारः ॥ तत्रादौ दिग्ज्ञानमाह । जलसाधितसमभूमौ क्राङ्गुलदीर्घं तलाग्रयोस्तुल्यम् । शङ्कं निधाय वृत्ते तदग्रभा विशति चापैति ॥ १ ॥ यत्र क्रमेण तत्र स्यातां वरुणामरेड्दशी ताभ्याम्। मुखपुच्छोपरि धार्य सूत्रं तद्दक्षिणोत्तरके ॥ २ ॥ । जलेन साधिता समा भूमिस्तस्यां जलवत् समीकृतायां भूमावित्यर्थः । क्राङ्गुलदीर्घं दृादशाङ्गुलोच्छ्रयम् । ताभ्यां वरुणामरेड्देशैौ पश्चिमपूर्वादशैं अमरेंदू इन्द्रः । ཏུ་ཞི་ཡ་ལི་ཡའི་ཨ་ मत्स्यं कृत्वा तस्य मुखपुच्छेपरि सूत्रं घार्य तेन दक्षिणेतरके दिशो भवतः । । अत्रोपपत्तिः । ‘शिलातलेऽम्बुसंशुद्धे’ इति सूर्यसिद्धान्तप्रकारोपपत्या स्फुटा (द्रष्टव्या सुधावर्पिणी ) ॥ १-२ ॥ इदानों पलभापलकर्ण आह । अयनांशसंस्कृत इने गेोलादिस्थे दिनार्थभे ये स्तः । तद्योगार्ध विषुवच्छाया तच्छडूवगैक्यात् ॥ ३ ॥ मूलं विषुवत्कर्णस्तत्क्रा १२ ढ्योनाहतेः पदं भा वा । अयनांशसंस्कृते इने सूर्ये गेोलादिस्थे उत्तरगेोलार्दी दक्षिणगोलादैौ च संस्थिते ये दिनार्धेभे छाये स्तः । तयोर्योगार्धं विषुवच्छाया पलभा भवति । तस्याः शङ्कीद्वादशाङ्कलशङ्गोश्व वर्गयोरैक्यात् मूल विषुवत्कर्णः पलकणैः । तस्य पलकर्णस्य क्रैर्द्वादशाभराढ्यस्य युक्तस्य ऊनस्य च आहतेर्द्वादशपलकर्णवर्गन्तरादित्यर्थः । पदं मूलं वा प्रकारान्तरेण भा छाया पलभेत्यर्थ ।