पृष्ठम्:महासिद्धान्तः.djvu/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V90 सतिलके महासिद्धान्ते ___ \, अत्रोपपात्तिः । अक्षक्षेत्रानुपातेन स्फुटा । ‘त्रिज्ये पृथक् कोटिभुजाहते' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ ८ ॥ इदानीमन्यदाह । क्रान्तिज्ये कर्णहते कोट्या दोष्णा होते क्रमात्स्याताम्र। अग्रासमदृक्तनरी समना श्रुत्या हतो हुतः कोट्या ॥ ९ ॥ क्रान्तिज्ये कर्णहते क्रमात् कोठया दोष्णा भुजेन हते तदा अग्रासमवृत्तनरौ स्याताम्। प्रथमस्थाने अग्रा भवति द्वितीयस्थाने समशङ्करिति। समशङ्कुः कर्णेनाहतः कोट्या भक्तस्तदा तद्धृतिः स्यादित्यग्रे सम्बन्धः । अत्रोपपत्तिः। अक्षक्षेत्रानुपातेन स्फुटा । ‘क्रान्तिज्यके कर्णगुणे विभते? इत्यादि भास्करोत्तमेतदनुरूपमेव ॥९॥ इदानीमन्यदाह । तद्धृतिरस्या अाद्यं खण्डं कुज्योत्तरं शेषम् । * कुज्या दोर्ध्न श्रुल्या संभक्ताऽग्राग्रखण्डं स्यात् ॥१०॥ • अस्यास्तद्भुतेराद्य खण्ड कुज्यास्ति। शेषमुक्तरं द्वितीय खण्डै यच्च तत् कुज्येोनतद्धृतिर्नाम । कुज्या भुजनिघ्नी श्रुत्या भक्ताऽग्राग्रखण्डं स्यात् । । अत्रेोपपतिरक्षक्षेत्रानुपातेन स्फुटा। 'कुज्यापमज्ये भुजकोटिनिघ्न्यै? इति भास्करोत्तमतदनुरूपमव ॥१०॥ इदानीमन्यदाह । अपमज्या भुजगुणितोन्मण्डलशङ्कुः श्रवोहृता भवति । निजकोटिभुजश्रवणैः सिध्यन्त्येतैर्निरुक्तानि ॥११॥ अपमज्या क्रन्तिज्या भुजेन गुणिता श्रवसा कर्णन हृता उन्मण्डलशङ्कुर्भवति । ऎतैर्निजकेष्टिभुजकर्णैर्मथोऽनुपाततो निरुक्तानि