पृष्ठम्:महार्थमञ्जरी.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
श्रीमन्महेश्वरानन्दविरचिता

दृढग्रन्थिर्ज्ञानकला
 कलयति त्रैलोक्यमेककलम्॥ ३१॥

 विश्वव्यवहारे सर्वोऽपि प्रपञ्चो 'ज्ञाता ज्ञेयं ज्ञानम्' इत्येवंरूपपुटत्रयसमाहारात्मनि अर्थतत्त्वे पर्यवस्यति, पुटत्वं च एषाम् अशेषविश्वक्रोडीका- रसामर्थ्यात् , तत्र च त्रिपुड्यन्तरालवर्तिनी या ज्ञानकला चिच्छक्तिः, सा खलु

'वेद्यमेतदखिलं स ईश्वरो
 वेदिता यदनयोश्च लक्षणम् ।
त्वामृते सुमुखि वृत्तिमन्तरा
 को नु उद्धटयितुं प्रगल्भते ॥

इति श्रीकोमलवल्लीस्थित्या विषयतयावरोध्यं वेद्यवर्गं भोक्तृतया स्फुरन्तं वेदितारं च प्रति समं विशेषशंकाशून्यं यथा भवति तथा, दृढग्रन्थिः कोटिद्वयावगाहनेन तादात्म्येनोपश्लेषाद्वज्रलेपव-


२१ ज्ञातरि अन्त्यकोटौ लग्ना सदाशिववत् ज्ञेये चादिकोटौ ईश्वरवत्, इति कोटिद्वितयं मिलितमेव । 10