पृष्ठम्:महार्थमञ्जरी.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
महार्थमजरी

ख्यवयवानुप्रविष्टवर्हपरिवर्हादिपूर्णरेखादिवैचित्र्य शिल्पकल्पनाकौशलमपि एतत्सूक्ष्मेक्षिकावधार्य मङ्गीक्रियते । एवमत्रापि ॥ ३०॥

 ननु उन्मेष एव निमेषो निमेष एव उन्मेषो विश्वमयस्य विश्वोत्तीर्णस्य च,- इत्येषा महती व्याहतिरित्याशंक्याह

तिबुडिमसंखुसमत्थं
 तंथ णेअंसि अणइये असमम्।
दिढंगण्णाण्डीणकला
 कलेइ तेलोङ्कमेककलम्॥३१॥


त्रिपुटीमयं समस्तं
 तत्र च ज्ञेये च ज्ञातरि च समम्


त्रिपुटीमयमिति, अनेनैवाभिप्रायेणान्यत्राप्युक्तम् ।

'ज्ञातार मां ज्ञानं शक्तिरिव त्रितयवज्ञेयम् ।
अविभक्तं भावयतः सोऽहं सा तनयं तच्च ॥
वेधं स्वकमसिद्धां वित्तिमनुप्रविशदङ्गविषयायम् ।
वेदितरि वित्तिमुखतो लीनं तल्लक्षणं भवति ॥

इत्यादि। 2