पृष्ठम्:महार्थमञ्जरी.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
श्रीमन्महेश्वरानन्दविरचिता

तत्र.. भुवनादि प्रथममभिधेयभूतं वर्णमन्त्रादि द्वितीयमभिधानमिति विवेकः । तथा च सति वाच्यवर्गः सर्वोऽपि प्रकाशपरमार्थः, वाचकोल्ले खस्तु विमर्शवपुरिति शिवस्य प्रकाशविमर्शा त्मनः परमेश्वरस्य यामलमुभयसंसर्गारणिस्व भाव उल्लासः-उन्मेषनिमेषशक्तिद्वितययौगप द्यानुभूतिचमत्कार इत्यर्थः। तथैव श्रीविज्ञानभै रवेऽपि

भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावदन्वे मनोलयः ॥' (५६)

इति ॥ २७॥

 एवमुक्तरीत्या विश्ववैचित्र्यस्य सर्वस्यापि प्र काशविमर्शान्तर्भावम् उपपाद्य तयोरपि भावः पर्यन्तत औपचारिक इत्याह

आलंसंविथेसुमि व
 गयपुंमहाणीवसुवेणि पडिहासं।