पृष्ठम्:महार्थमञ्जरी.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
महार्थमञ्जरी

एकसिश्चिअअंथे
 सिवसत्तिविहाअंपणं कुडिमौ॥२८॥


आलेख्यविशेष इव
 गजवृषभयोईयोरपि प्रतिभासः।
एकस्मिन्नप्यर्थे
 शिवशक्तिविभागकल्पनां कुर्मः॥ २८॥


 चित्रकृतोऽपि हि स्ववैदग्ध्यप्रकटनाय गजवृ षभादीनां भिन्नस्वभावानामपि भावानामेकतरसं निवेशयुक्त्या ऐक्यावभासः, अन्यतरसंनिवेशयु क्त्या न ऐक्यावभासश्च । एवं स्थिते यथा चित्र विशेषे गजवृषभयोः द्वयोरपि पर्यालोचकप्रमातृ ज्ञानानुसंधानधाराधिरोहवैशिष्टयेन कुम्भमण्डल शुण्डामण्डलीभावादियोगात् ककुदकूटादिक्रमाच्च