पृष्ठम्:महार्थमञ्जरी.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
महार्थमञ्जरी

हादयष्टान्ता वर्णाः त्रयोविंशतिः एकविंशतिप दानि शिरोवामदेवौ मन्त्रौ अप्तत्त्वादिप्रकृत्यन्ता नि त्रयोविंशतितत्त्वानि अमरेशादीनि श्रीकण्ठा न्तानि षट्पंचाशढुवनानि । विद्यायां आदिधा न्ताः सप्त वर्णाः विंशतिः पदानि शिवोऽघोरश्च इति मन्त्रद्वयम् पुरुषप्रमृतीनि मायापर्यन्तानि सप्ततत्त्वानि, भीमादीनि अंगुष्ठमात्रान्तानि च सप्तविंशतिर्भुवनानि । शान्तौ तु गखकाः त्रयो वर्णाः पदानि एकादश कवचतत्पुरुषमन्त्रौ शुद्ध विद्येश्वरंसदाशिवास्त्रीणि तत्त्वानि कलादिसदा शिवान्ता अष्टादश भुवनानि । शान्त्यतीतायां च वर्णाः षोडश स्वराः पदमेकं शिव-ईशान अस्त्रम् इति मन्नत्रयं शिवतत्त्वमेकं यः शक्तिस्व भाव इति आम्नायते निवृत्त्यादीनि अनाश्रिता न्तानि पंच भुवनानि इति विवेकः । एवं सति यदेतद्ध्वनामुक्तस्वरूपाणां षट्वं तत्र यदेतदर्थ भुवनतत्त्वकलास्वभावम् अन्यत्तु वर्णमन्त्रपदा त्मकं प्रत्येकं च स्थूलसूक्ष्मपरप्रक्रियया त्रैविध्यं,