पृष्ठम्:महार्थमञ्जरी.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमन्महेश्वरानन्दविरचिता

 त्रैलोक्ये मानमेयमातृरूपे विश्वस्मिन्नपि यो धूर्तः वैदग्ध्यावधारितव्यवहारकलापः सद्योतन स्वभावत्वात् महाप्रमाता भवन् विश्वलक्षणादुद्या नादुत्पन्नानि पृथिव्याद्यसाधारणगुणवर्गम् अङ्गी कृत्य प्रवृत्तानि सुगन्धीनि प्रकाशपरिमलपरि स्फुरणोद्भटानि पञ्चापि प्रसूनानि आजिघ्रन् ग्रहणं प्रति किंचित्कौटिल्यद्वारेऽपि आर्जवेन अनुसंदधानः क्रीडति-हर्षानुसारेण स्पन्दते स्वातन्त्र्यक्रियामुपदर्शयति इति यावत् । ज्ञानवि षयाः-शब्दस्पर्शौ रूपं रसो गन्ध इति । एषां च क्रमादाकाशादिगुणत्वं श्रोत्रादिग्राह्यत्वं वा प्रातिस्विकं लक्षणमूह्यम् । यदुक्तम् अभियुक्तैः इन्द्रियद्वारसंग्राह्यैर्गन्धाद्यैरात्मदेवताः।

स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः ।।'
इति । गन्धप्रमुखानि गन्धप्रधानानि, इति


संहारक्रमण उक्तिः ॥२४॥पं० १२ ग० पु. प्रातिबिम्बिकमिति पाठः ।