पृष्ठम्:महार्थमञ्जरी.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
महार्थमञ्जरी

अथ भूतपञ्चकम् उद्भावयति

थिणंसं कामसच्छादो
 लंखु-रसंसव शिवपआसस ।
गुरुपिण्डा इव पञ्चवि
 भूतालं मदुरण मुचयत्ति ॥२५॥


स्त्यानस्य क्रियावशात्
 इक्षुरसस्येव शिवप्रकाशस्य।
गुडपिण्डा इव पञ्चापि
 भूतानि मधुरतां न मुञ्चन्ति

॥ २५॥


 शिवात्मा खलु प्रकाशः शक्तिसदाशिवादिप रिपाट्यनुसारेण प्रस्तुतभूतपञ्चकपर्यन्तं स्त्यानी भवति-वेदितृस्वभावन्यग्भावात् वेद्यतोत्कर्षात्मकं काठिन्यमनुभवति, तादृशस्य च अस्य मधुरतां सर्वप्रमातृस्वभावेन अनुभाव्य परमशिवप्रकाशो ल्लासात्मकमहाह्लादोपभोगलक्षणं सामरस्य पञ्चापि