पृष्ठम्:महार्थमञ्जरी.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
महार्थमञ्जरी

न्तस्थित्यात्म सर्वतन्त्रावयवपञ्चात्मकं महार्थमञ्जर्याह्वयं महत् तत्त्वं, तत् तन्त्रामृतसूत्रायमाणगाथाभिः सप्तत्या भवति । तत्र च

१ आद्यायां मङ्गलाचारानुशासनम् ।
२ द्वितीयस्यां तन्त्रप्रतिपाद्यमानस्य वस्तुनो निर्देशः ।
३-४-५ ततस्तिसृषु स्वात्मतत्त्वप्रमाणानुपयोगप्रपञ्चनम्।
६ षष्ट्याम् अधिकारिविभागव्यामोहः ।
७ सप्तम्यां विधिनिषेधनिर्देशः ।
८ अष्टम्यां संसारस्वरूपनिरूपणम् ।
९ नवम्यां स्वात्मनः स्फुटस्यापि अस्फुटत्वौचित्यानुशासनम् ।
१० दशम्यां विम्रष्टव्यस्वरूपविमर्शस्य पुरुषार्थत्वावस्थापनम्।
११-१२ ततो द्वयोः विमर्शस्वरूपविमर्शः।
१३-२५ ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः ।