पृष्ठम्:महार्थमञ्जरी.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमन्महेश्वरानन्दविरचिता

२६ षड्विंश्यामुक्तार्थं प्रति परमार्थपर्यालोचनम् ।
२७ सप्तविंश्यां विश्वस्य प्रकाशविमर्शद्वयान्तर्भा वोद्भावनम् ।
२८ अष्टाविंश्याम् एकत्र वस्तुनि शिवशक्तिवि भागाध्यवसानम् ।
२९ एकोनत्रिंश्यां परमेश्वरस्य विश्वशरीरतया शक्त्युत्कर्षोपपादनम् ।
३० त्रिंश्यां विश्ववैचित्र्यस्य स्वात्मनि अवैक ल्येन अवस्थानप्रदर्शनम् ।
३१ एकत्रिंश्यां प्रमात्रादित्रिकस्य द्वैतपर्यवसा यित्वोन्मीलनम्।
३२-३३ ततो द्वयोः सत्यासत्यविभागव्युदासः।
३४-३५ ततोऽपि द्वयोः पारमेश्वर्या सपर्यया वैशिष्ट्यावभासनम्।
३६-४१ ततः षट्सु पूज्यतया श्रीयन्त्रार्थक्रमा- वमर्शः।
४२-४६ ततश्च पञ्चसु सपर्यायाः स्वरूपनि- ष्कर्षः।