पृष्ठम्:महार्थमञ्जरी.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
महार्थमञ्जरी

वीयाए उल्लाहे
 वील सो होइ ईसोरो णाम्
॥१५॥


ज्ञानं क्रियेति द्वयोरपि
 प्रथमोन्मेषः सदाशिवो देवः ।
द्वितीयाया उल्लेखे
 द्वितीयः स भवति ईश्वरो नाम ॥१५॥

 ज्ञानं हि नाम अहंभावावभासनात्मा सर्वप्रा णिनां स्वयं वेदनसिद्धस्वभावः, क्रिया च कर चरणानुबन्धिनी सर्वसाक्षात्कारयोग्या परिस्फु रति, तत्र जानामि करोमि इत्यादिवत् जानामि इत्यादावपि आदर्शावलोकनादिन्यायात् अस्म च्छब्दार्थ एव युष्मदाद्यर्थतया अवभासते इति अहन्तैव सर्वत्र आत्मतत्त्वम् । यदुक्तं