पृष्ठम्:महार्थमञ्जरी.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
महार्थमजरी

असन्नेव स भवति असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः।।

इति । तस्मात् स्वात्मरूपो हृदयप्रकाशः सन्नेव, सन्नित्येतत् प्रकृतितः प्रत्ययतश्च पर्यालोचनीयः, अस्तेर्धातोः शतरि खलु एवमुपपद्यते, तत्र शक्यार्थो भवनाख्यक्रियाप्रत्ययांशस्य कर्ता इति स्वीकार्यः। ततश्च सन्नित्यस्य भवनलक्षणायाः क्रियायाः कर्ता इत्यर्थो भवति, सैव भवनक्रिया कर्तृतामयी विमर्श इत्युच्यते, यदा स्वस्मिन् हृदयप्रकाशस्वरूप एव आत्मनि तिष्ठति, तदा विमर्शः शुद्धो विमर्श एव इत्येव व्यवह्रियते,


६ तिष्ठतीति, यदुक्तं तन्त्रालोके

'अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ।
क्षोभोतदिच्छतत्वेच्छामासनं क्षोभणां विदुः ।।

इति ।

'ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमृच्छति ।
विश्वबीजादतः सर्वं बाह्यं विम्बं विवर्त्स्यति ।।'

इति च ।


पं. ४ ग० पु० प्रकृतेरर्थो भवनेति पाठः ।